हर घर तिरंगा इत्यनेन संदेशेन सह बीएसएफद्वारा निष्कासिता भव्या द्विचक्रिकायात्रा
किशनगंजः, 11 अगस्तमासः (हि.स.)।स्वातन्त्र्यदिवसस्य सन्दर्भे ‘हर घर तिरङ्गा’ अभियानस्य अन्तर्गतं मङ्गलवासरे सीमासुरक्षाबलस्य किशनगञ्जक्षेत्रीयमुख्यालयस्य पक्षतः भव्यस्य सायकिलयानस्य आयोजनं कृतम्। प्रातः षड्वादने आयोजितस्य अस्य सायकिलयानस्य शुभारम्भः
हर घर तिरंगा के संदेश के साथ बीएसएफ ने निकाली भव्य साइकिल रैली


किशनगंजः, 11 अगस्तमासः (हि.स.)।स्वातन्त्र्यदिवसस्य सन्दर्भे ‘हर घर तिरङ्गा’ अभियानस्य अन्तर्गतं मङ्गलवासरे सीमासुरक्षाबलस्य किशनगञ्जक्षेत्रीयमुख्यालयस्य पक्षतः भव्यस्य सायकिलयानस्य आयोजनं कृतम्। प्रातः षड्वादने आयोजितस्य अस्य सायकिलयानस्य शुभारम्भः सीमासुरक्षाबलस्य उपमहानिरीक्षकेण गणेशकुमारेण कृतः। सायकिलयाने सीमासुरक्षाबलस्य १८८ कार्मिकाः उत्साहपूर्वकं भागं गृहीतवन्तः।

सायकिलयाने क्षेत्रीयमुख्यालयस्य अतिरिक्तं १३२ तमस्याः, ६३ तमस्याः तथा ८० तमस्याः वाहिन्याः सेनानायकाः सैनिकाश्च अपि सहभागितां कृतवन्तः। सेनानायकः प्रशासनं रामचन्द्रः इत्यादयः अधिकारिणः सैनिकाश्च हस्तेषु राष्ट्रध्वजं धृत्वा नगरस्य विभिन्नमार्गेषु सायकिलयानं कृत्वा जनान् देशभक्तेः राष्ट्रियैकतायाश्च सन्देशं दत्तवन्तः।

सायकिलयानस्य प्रारम्भः क्षेत्रीयमुख्यालयपरिसरात् अभवत्। ततः तत् क्रीडाङ्गणं, खगडाचौकं विशालमेगामार्ट् इत्येतानि स्थानानि अतिक्रम्य पुनः क्षेत्रीयमुख्यालयपरिसरं प्राप्य सम्पन्नम्। अस्मिन् अवधौ सैनिकेषु विशेषः उत्साहः दृष्टः। तिरङ्गध्वजेन सह निर्गतेन सायकिलयानेन स्वातन्त्र्यदिवसस्य वातावरणं अधिकं देशभक्तिमयं जातम्।

सायकिलयानस्य माध्यमेन सामान्यजनाः स्वातन्त्र्यदिवसस्य अवसरे स्वगृहेषु तिरङ्गध्वजं फहरयितुं तथा ‘हर घर तिरङ्गा’ अभियाने सक्रियतया सहभागितां कर्तुं प्रेरिताः। सीमासुरक्षाबलस्य सैनिकैः राष्ट्रध्वजस्य सम्मानस्य, देशभक्तेः राष्ट्रियैकतायाश्च भावनां सुदृढीकर्तुं सन्देशः अपि प्रदत्तः।

सायकिलयानस्य समापनावसरे उपमहानिरीक्षकः गणेशकुमारः सर्वेभ्यः प्रतिभागिभ्यः शुभकामनाः प्रदत्तवान्। सः अवदत् यत् ‘हर घर तिरङ्गा’ अभियानं केवलं कार्यक्रमः नास्ति, अपितु राष्ट्रस्य प्रति सम्मानस्य नागरिकेषु राष्ट्रभावनायाः सुदृढीकरणस्य च माध्यमम् अस्ति। अभियानस्य सन्देशं जनजनं प्रति प्रापयितुं तस्य सफलतां च सुनिश्चितुं सः सर्वान् प्रेरितवान्।

Hindusthan Samachar / Dheeraj Maithani