बेलदा इत्यत्र मङ्गलवासरे प्रातः बलिदानी-खुदीराम-बोसस्य पुण्यस्मृतौ श्रद्धाञ्जलिः समर्पिता
मेदिनीपुरम्, ११ अगस्तमासः (हि.स.)। बलिदानी-खुदीराम-बोसस्य ११९तमस्य बलिदान-दिवसस्य अवसरे मङ्गलवासरे पश्चिम-मेदिनीपुर-जनपदस्य बेलदा इत्यत्र प्रातः ४:२० वादने बलिदानिन: प्रतिमायै श्रद्धाञ्जलिः समर्पिता। बिहारस्य मुजफ्फरपुर-स्थले बलिदानी-खुदीराम-बोस-के
बेलदा स्टेशन पर शहीद खुदीराम बोस को श्रद्धांजलि देते लोग


मेदिनीपुरम्, ११ अगस्तमासः (हि.स.)। बलिदानी-खुदीराम-बोसस्य ११९तमस्य बलिदान-दिवसस्य अवसरे मङ्गलवासरे पश्चिम-मेदिनीपुर-जनपदस्य बेलदा इत्यत्र प्रातः ४:२० वादने बलिदानिन: प्रतिमायै श्रद्धाञ्जलिः समर्पिता। बिहारस्य मुजफ्फरपुर-स्थले बलिदानी-खुदीराम-बोस-केन्द्रीय-कारागारे आयोज्यमानस्य श्रद्धाञ्जलि-कार्यक्रमस्य परम्परानुसारं बेलदा इत्यत्र अपि तस्मिन्नेव समये कार्यक्रमः आयोजितः।

११ अगस्त १९०८ तमे वर्षे मेदिनीपुरस्य वीर-क्रान्तिकारी खुदीराम-बोसः बिहारस्य मुजफ्फरपुर-केन्द्रीय-कारागारे मृत्यु-दण्डेन दण्डितः। स्वातन्त्र्यप्राप्तेः अनन्तरं मुजफ्फरपुर-केन्द्रीय-कारा-गारस्य नाम बलिदानी-खुदीराम-बोसस्य नाम्ना कृतम्। प्रतिवर्षम् अगस्तमासस्य ११ दिनाङ्के प्रातः ४:२० वादने तत्र बलिदानिभ्य: श्रद्धाञ्जलिं समर्पयितुं परम्परा वर्तते।

२०२३ तमे वर्षे मुजफ्फरपुर-स्थिते शहीद-खुदीराम-बोस-केन्द्रीय-कारागारे आयोजिते श्रद्धाञ्जलि-कार्यक्रमे बेलदायाः त्रयः पत्रकाराः भागं गृहीतवन्तः। तेषु शिक्षकः पत्रकारश्च अखिलबन्धुः महापात्रः अपि सम्मिलितः आसीत्। सः मेदिनीपुर-समन्वय-संस्थायाः बेलदा-क्षेत्रीय-विभागस्य समक्षं बङ्गालेऽपि तस्मिन्नेव समये बलिदानी-खुदीराम-बोसस्य श्रद्धाञ्जलि-कार्यक्रमस्य आयोजनस्य प्रस्तावम् उपस्थापितवान्। तस्य प्रस्तावस्य आधारेण मङ्गलवासरे बेलदा-रेलस्थानक-परिसरे अयं कार्यक्रमः आयोजितः।

मेदिनीपुर-समन्वय-संस्थायाः बेलदा-क्षेत्रीय-इकायाः तत्वावधाने आयोजिते कार्यक्रमे संस्थायाः अध्यक्षः सूर्यकान्ति-नन्दः, सचिवः पुलक-पात्रः, केन्द्रीय-समितेः उपाध्यक्षः शिक्षकश्च हरिपद-पात्रः इत्यादयः अनेके गणमान्यजनाः उपस्थिताः आसन्। २०२३ तमे वर्षे मुजफ्फरपुरे आयोजिते कार्यक्रमे सम्मिलितानां बेलदायाः त्रयाणां पत्रकाराणां सह त्रयः पूर्वसैनिकाः अपि कार्यक्रमे भागं गृहीतवन्तः।

अस्मिन् अवसरे बलिदानी-खुदीराम-बोसस्य प्रतिमायां माल्यार्पणं कृत्वा दीपप्रज्वलनपूर्वकं श्रद्धाञ्जलिः समर्पिता। ततः बलिदानी-खुदीराम-बोसस्य स्मृत्यर्थं संक्षिप्ता पदयात्रा अपि आयोजिता। प्रातःकाले आयोजिते अस्मिन् कार्यक्रमे देशभक्तिभावनया शहीदस्य बलिदानस्य स्मरणेन च भावुकं वातावरणं निर्मितम्।

Hindusthan Samachar / Divya Ranjan