अद्य मुख्यमन्त्री विष्णुदेव-सायः जशपुर-प्रवासे भविष्यति, कुनकुर्याम् त्रिरङ्ग-यात्रायां सम्मिलिष्यति
रायपुरम्, ११ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव-सायः अद्य मङ्गलवासरे जशपुर-जनपदस्य प्रवासं करिष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:५० वादने मुख्यमन्त्रि-निवासात् आरक्षक-प्रांगणस्य हेलिपैड्-स्थलं प्राप्स्यति। ततः मध्याह्ने
मुख्यमंत्री विष्णु देव साय


रायपुरम्, ११ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव-सायः अद्य मङ्गलवासरे जशपुर-जनपदस्य प्रवासं करिष्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:५० वादने मुख्यमन्त्रि-निवासात् आरक्षक-प्रांगणस्य हेलिपैड्-स्थलं प्राप्स्यति। ततः मध्याह्ने १२:०० वादने हेलिकॉप्टर-यानेन जशपुरं प्रति प्रस्थास्यति।

मुख्यमन्त्री मध्याह्ने १:२० वादने सलिया-टोली-हेलिपैड्-स्थलं प्राप्स्यति। तत्रतः सः मार्गेण कुनकुर्यां गमिष्यति तथा मध्याह्ने १:३० वादनात् ३:३० वादन-पर्यन्तम् आयोज्यमानायां त्रिरङ्ग-यात्रायां सम्मिलिष्यति।

त्रिरङ्ग-यात्रायाः कार्यक्रमस्य अनन्तरं मुख्यमन्त्री सायं ३:३० वादने कुनकुर्याः प्रस्थाय सायं ४:०० वादने बगियां प्राप्स्यति। बगिया इत्यत्र तस्य रात्रिविश्रामः निर्धारितः अस्ति।

Hindusthan Samachar / Divya Ranjan