दिल्लीमुख्यमन्त्रिणा ‘स्पिरिचुअल् एण्ड् हेरिटेज् टूरिज्म् कॉन्क्लेव्-२०२६’ इत्यस्मिन् चत्वारः पर्यटनपरिपथाः प्रारब्धाः
नवदिल्ली, ११ अगस्तमासः (हि.स.)। मुख्यमन्त्री रेखा-गुप्ता मङ्गलवासरे अक्षरधाममन्दिरे आयोजिते ‘स्पिरिचुअल् एण्ड् हेरिटेज् टूरिज्म् कॉन्क्लेव्-२०२६’ इत्यस्मिन् दिल्ली इत्यस्य चत्वारः आध्यात्मिक-विरासत्पर्यटनपरिपथान् प्रारब्धवती। अस्मिन् अवसरे आध्यात्
मुख्यमंत्री रेखा गुप्ता मंगलवार को अक्षरधाम मंदिर में आयोजित ‘स्पिरिचुअल एंड हेरिटेज टूरिज्म कॉन्क्लेव-2026’ में चार पर्यटन सर्किट का शुभारंभ करते हुए


नवदिल्ली, ११ अगस्तमासः (हि.स.)। मुख्यमन्त्री रेखा-गुप्ता मङ्गलवासरे अक्षरधाममन्दिरे आयोजिते ‘स्पिरिचुअल् एण्ड् हेरिटेज् टूरिज्म् कॉन्क्लेव्-२०२६’ इत्यस्मिन् दिल्ली इत्यस्य चत्वारः आध्यात्मिक-विरासत्पर्यटनपरिपथान् प्रारब्धवती।

अस्मिन् अवसरे आध्यात्मिकगुरुः सद्गुरुः जग्गी-वासुदेवः उपस्थितः आसीत्। एतेषां चतुर्णां परिपथानां माध्यमेन दिल्ली इत्यस्या: विभिन्नेषु भागेषु स्थितानि धार्मिकानि, आध्यात्मिकानि, सांस्कृति-कानि ऐतिहासिकानि च स्थलानि एकस्य यात्रानुभवस्य रूपेण संयोजितानि सन्ति।

‘द सोल् ऑफ् दिल्ली’—परिपथः प्रथमः : अस्मिन् परिपथे गुरुद्वारा-बङ्गला-साहिबः, सेक्रेड्-हार्ट्-कैथेड्रल्, अग्रसेनस्य बावली, लोटस्-टेम्पल्, अक्षरधाम-मन्दिरं च संयोजितानि सन्ति। अयं परिपथः दिल्ल्याः आध्यात्मिकवैविध्यस्य सांस्कृतिकपरम्परायाश्च एकत्र अनुभवस्य अवसरं प्रददाति।

‘द हेरिटेज् ऑफ् दिल्ली’—परिपथः द्वितीयः : अस्मिन् परिपथे बिरला-मन्दिरं, झण्डेवालान्-मातामन्दिरं, जन्तर-मन्तरम्, योगमायामन्दिरं, जगन्नाथमन्दिरं च अन्तर्भवन्ति। अयं परिपथः दिल्ल्याः धार्मिकायाः ऐतिहासिकायाश्च परम्परायाः विविधपक्षान् प्रदर्शयति।

‘दिल्लीकी सेक्रेड् हार्मनी’—परिपथः तृतीयः : अस्मिन् परिपथे प्राचीनहनुमानमन्दिरं, दिगम्बर-जैन-लालमन्दिरं, अम्बेडकर-स्मारकं, पुराणाकिला, हजरत्-निजामुद्दीन् च संयोजितानि सन्ति। अयं परिपथः दिल्ली इत्यस्या: बहुधार्मिकाम् समावेशिनीं संस्कृतिं तथा नगरस्य ऐतिहासिकीं परम्परां च प्रतिबिम्बयति।

‘एकोज् ऑफ् दिल्ली’—परिपथः चतुर्थः : अस्मिन् परिपथे गुरुद्वारा-रकाबगञ्ज-साहिबः, बौद्धमन्दिरं, चर्च्-ऑफ्-रिडेम्प्शन्, महरौली-पुरातत्त्वीय-उद्यानं, छतरपुर-मन्दिरं, लिङ्गभैरवी-सन्निधानं च अन्तर्भवन्ति। अयं परिपथः दिल्ली इत्यस्या: धार्मिकस्थलानि, पुरातत्त्वीयपरम्पराम् आध्यात्मिकपरम्पराश्च एकस्मिन् व्यापकयात्रानुभवे संयोजयति।

‘दिल्ली : द कैपिटल् ऑफ् स्पिरिचुअलिटी, हेरिटेज् एण्ड् एक्सपीरियंसेज्’ इति विषयाधारिते आयोजितस्य सम्मेलनस्य उद्देश्यम् दिल्ली इत्यस्या: आध्यात्मिकीं सांस्कृतिकीं ऐतिहासिकीं च परम्परां समेकितपर्यटनानुभवरूपेण देशस्य विश्वस्य च पुरतः प्रस्तूय राजधानीं ‘ट्रांजिट् सिटी’ इत्यस्मात् ‘डेस्टिनेशन-सिटी’ इति रूपेण विकसितुं वर्तते।

मुख्यमन्त्रिणा उक्तं यत् दिल्ली केवलं कतिपयप्रसिद्धस्मारकैः सीमितरूपेण न द्रष्टव्या। इयं भारतस्य विविधसंस्कृतेः, परम्परायाः आध्यात्मिकचेतनायाश्च जीवन्तं प्रतिबिम्बम् अस्ति। इन्द्रप्रस्थात् आरभ्य विभिन्नेषु ऐतिहासिककालेषु दिल्ली भारतस्य इतिहासं स्वान्तरे धारयति। राजधानीक्षेत्रस्य प्रत्येकं भागः स्वान्तरे काञ्चित् कथां, परम्परां च धारयति।

सा अवदत् यत् दिल्ली इत्यस्य परिचयः केवलं लालकिला, पुरातनकिला, हुमायून्समाधिः इत्यादिभिः ऐतिहासिक-स्मारकैः सीमितः नास्ति। अत्र अक्षरधाम-सदृशानि विश्वस्तरीयाणि आध्यात्मिकानि वास्तुशिल्पीनि च स्थलानि सन्ति। तद्वत् मन्दिराणां, गुरुद्वाराणां, गिरिजाघराणां, मस्जिदानां, बौद्ध-जैनधार्मिकस्थलानां च समृद्धा परम्परा अपि विद्यते। दिल्ल्याः महान् सौन्दर्यं तस्याः विविधतायाम् एकतायां निहितम् अस्ति।

देशस्य प्रायः सर्वेषां राज्याणां जनाः दिल्ली इत्यत्र निवसन्ति तथा स्वसंस्कृतीः, परम्पराः उत्सवांश्च अत्र जीवन्तान् धारयन्ति। गुजरातस्य गरबा, महाराष्ट्रस्य गणेशचतुर्थी, असमस्य बिहू, दक्षिण-भारतस्य सांस्कृतिकपरम्पराः उत्तर-भारतस्य उत्सवाश्च दिल्ली इत्यत्र सम्पूर्णस्य देशस्य संस्कृतिं एकत्र प्रदर्शयन्ति। अत एव दिल्ली भारतस्य सांस्कृतिक्या: आध्यात्मिकस्य च प्रतिबिम्बस्य जीवन्तं स्वरूपम् अस्ति।

मुख्यमन्त्रिणा उक्तं यत् एतेषां परिपथानाम् उद्देश्यम् केवलं पृथक्-पृथक् पर्यटन-स्थलानां संयोजनं न, अपितु दिल्ल्याः समग्रपर्यटनानुभवरूपेण विकासः अस्ति। पर्यटकाः अत्र दिल्ल्याः आध्यात्मिकतां, इतिहासं, वास्तुकलां, संस्कृतिं, भोजनपरम्परां, लोकपरम्पराः विविधाः श्रद्धाश्च अनुभवितुं शक्नुयुः।

मुख्यमन्त्रिणा उक्तं यत् सम्प्रति सम्पूर्णं विश्वं भारतीयाध्यात्मेन, योगेन, शान्त्या आन्तरिकसन्तुलनेन च आकर्षितम् अस्ति। भारतीयस्य आध्यात्मिकपरम्परायाः वैश्विकस्वीकृतिः दिल्ली इत्यस्य कृते अपि महत्त्वपूर्णः अवसरः अस्ति। यथा जनाः काशीविश्वनाथस्य, महाकालस्य देशस्य च अन्येषां प्रमुखाणां आध्यात्मिकस्थलानां दर्शनाय यात्रां कुर्वन्ति, तथैव दिल्ल्याः आध्यात्मिकधार्मिकस्थलान्यपि देश-विदेशीयपर्यटकानां प्रमुखाकर्षणरूपेण विकसितानि क्रियन्ते।

सा अवदत् यत् दिल्ली इत्यस्य पर्यटनविकासे सर्वकारेण सह आध्या-त्मिकसंस्थानां, होटल-आतिथ्य-उद्योगस्य, पर्यटनसञ्चालकानां, स्थानीय-व्यव-सायिनां, विरासत्सङ्घटनानां, विशेष-ज्ञाणां, विषयसामग्रीनिर्मातॄणां, यात्रा-प्रभावकाणां माध्यमानां च महत्त्वपूर्णा भूमिका अस्ति। सा सर्वेभ्यः दिल्ल्याः सकारात्मककथाः, संस्कृतिं, आध्यात्मि-कतां परम्परां च देशस्य विश्वस्य च जनानां पर्यन्तं प्रापयितुं योगदानं दातुम् आह्वानं कृतवती।

Hindusthan Samachar / Divya Ranjan