Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 11 अगस्तमासः (हि.स.)।जिलाधिकारी ललितमोहनरयालस्य निर्देशानुसार जनपदे प्रवर्तमानं बृहत्स्वच्छताभियानं मङ्गलवासरेऽपि निरन्तरं प्रवृत्तम्। विकासखण्डेषु ग्रामपञ्चायतेषु नगरीयेषु वनक्षेत्रेषु च अभियानं सञ्चाल्य अष्टचत्वारिंशति स्थलेभ्यः एकप्रयोगप्लास्टिकं ठोसावशिष्टं विविधं च कूडा कर्कटं सङ्गृह्य तस्य निस्तारणं कृतम्।
जिलापञ्चायतीराजाधिकारी सुरेशबैनी इत्यनेन कथितं यत् सर्वेषां विकासखण्डानां ग्रामपञ्चायतीभिः सह वनक्षेत्रेषु नगरीयक्षेत्रेषु च जनसहयोगेन व्यापकं स्वच्छताभियानं सञ्चालितम्। अभियानस्य मुख्योद्देश्यं ग्रामीणक्षेत्राणि नदीतीराणि जलस्रोतांसि च स्वच्छानि कूडा कर्कटरहितानि च स्थापयितुम् अस्ति।
अभियानस्य समये विभिन्नेषु क्षेत्रेषु तेषां समीपवर्तिषु प्रदेशेषु च प्रसृतं कूडा कर्कटं ठोसावशिष्टं च सङ्गृहीतम्। विभिन्नैः जनप्रतिनिधिभिः ग्रामीणैः अभियानस्य सहभागिभिश्च श्रमदानं कृत्वा नद्याः समीपवर्तिक्षेत्राणां च स्वच्छता कृता। अस्मिन् क्रमे ग्रामीणाः नदीषु जलस्रोतःसु च कूडा कर्कटं न क्षिपेयुः तथा प्राकृतिकजलस्रोतांसि स्वच्छानि संरक्षितानि च स्थापयेयुः इति विषये जागरिताः।
ग्रामीणैः स्वच्छतायाः पर्यावरणसंरक्षणस्य च प्रति स्वां प्रतिबद्धतां प्रकटयद्भिः अभियानस्य सक्रियसहभागिता कृता।
Hindusthan Samachar / Dheeraj Maithani