Enter your Email Address to subscribe to our newsletters

सीकरम्, ११ अगस्तमासः (हि.स.)। महानगरेषु विश्वस्य विभिन्नेषु देशेषु च व्यवसायस्य उच्चतमानि शिखराणि स्पृशतां गोयनका-परिवाराणां कृते सितम्बर-मासे स्वमूलस्थानं प्रति प्रत्यागमनस्य विशेषः अवसरः भविष्यति। राजस्थानस्य फतेहपुर-शेखावाट्यां ‘गोयनका-सङ्गम-२०२६’ इति कार्यक्रमस्य आयोजनं भविष्यति, यस्मिन् देश-विदेशेभ्यः प्रायः ६०० जनाः परिवारैः सह पञ्चदिनानि स्वपूर्वजानां भूमौ निवत्स्यन्ति। अस्मिन् समये कुलदेव्याः बीरा-बरजी-दादी इत्यस्याः मन्दिरे पूजार्चनया सह मातृभूम्या, पारिवारिक-विरासतया मारवाडी-संस्कृत्या च सम्बद्धतायाः क्रमः प्रवर्तिष्यते।
श्रीशक्ति-गोयनका-न्यासस्य कोलकाता-इत्यस्य तत्त्वावधाने अयं कार्यक्रमः सितम्बर-मासस्य सप्तम-दिनाङ्कात् एकादश-दिनाङ्कपर्यन्तं भविष्यति। पञ्चदिवसीये कार्यक्रमे पूर्वजानाम् आत्मनां शान्त्यै तथा नववंशस्य सुख-समृद्धये प्रगत्यै च प्रार्थनया सह शेखावाट्याः सांस्कृतिक-परम्पराः मौखिक-कथाभिः, सामुदायिक-कार्यक्रमैः मन्दिर-कार्यक्रमैश्च नवपीढ्यै प्रापयिष्यन्ते। कार्यक्रमे योगसाधना, परिचय-मिलनम्, सङ्गोष्ठी, प्रेरणात्मक-सत्राणि धार्मिक-प्रवचनानि च भविष्यन्ति।
न्यासस्य प्रबन्ध-न्यासिकः इमामी-समूहस्य प्रवर्तक-निदेशकश्च सुशील-कुमार-गोयनका अवदत् यत् सङ्गमे देश-विदेशस्य प्रमुख-व्यावसायिक-परिवाराणां सदस्याः सम्मिलिष्यन्ति। तेषु आरपीजी-समूहस्य अध्यक्षः हर्ष-गोयनका, आरपी-सञ्जीव-गोयनका-समूहस्य अध्यक्षः सञ्जीव-गोयनका, इण्डियन-एक्सप्रेस-समूहस्य अध्यक्षः, प्रबन्ध-निदेशकः सम्पादकीय-निदेशकश्च विवेक-गोयनका, वेल्सपन-वर्ल्ड-समूहस्य अध्यक्षः बीके-गोयनका, जी-समूहस्य अध्यक्षः सुभाष-चन्द्रः, इमामी-समूहस्य संयुक्ताध्यक्षः आरएस-गोयनका, जीडी-गोयनका-विद्यालयस्य संस्थापकः अञ्जनी-कुमार-गोयनका, गोल्डन-गोयनका-समूहस्य अध्यक्षः गिरिधारी-लाल-गोयनका तथा गोल्डी-स्पाइसेज-समूहस्य निदेशकः आकाश-गोयनका इत्यादयः प्रमुखाः सदस्याः सम्मिलिताः भविष्यन्ति।
गोयनका-रिकग्निशन-अवार्ड्-समित्याः अध्यक्षः अरुण-कुमार-गोयनका अवदत् यत् सितम्बर-मासस्य दशम-दिनाङ्के व्यापारस्य, समाजसेवायाः, क्रीडायाः, कलायाः, विज्ञानस्य, शिक्षायाः, साहित्यस्य स्वास्थ्यस्य च क्षेत्रेषु उत्कृष्टं उल्लेखनीयं च कार्यं कृतवतः गोयनका-समुदायस्य सदस्याः सम्मानिताः भविष्यन्ति। पुरस्कारार्थम् अन्तर्जाल-माध्यमेन नामाङ्कनानि आमन्त्रितानि सन्ति। जनाः स्वयमपि नामाङ्कनं कर्तुं शक्नुवन्ति। विजेतॄणां चयनं त्रिसदस्यीयया निर्णायक-समित्या करिष्यते तथा नामानि सितम्बर-मासस्य प्रथम-सप्ताहे घोषितानि भविष्यन्ति।
समारोहे मुख्यमन्त्री भजनलाल-शर्मा मुख्यातिथिः भविष्यति, यदा नगरीय-विकासस्य, आवासनस्य स्थानीय-निकायानां च राज्यमन्त्री झाबर-सिंह-खर्रा अध्यक्षतां करिष्यति। सांसदाः, विधायकाः, जनप्रतिनिधयः प्रशासनिकाधिकारिणश्च अपि समारोहे उपस्थिताः भविष्यन्ति। अस्यामेव रात्रौ कोटानगरस्य कृष्णा-विजयवर्गीया द्वारा जागरणम् ओढनी-उत्सवश्च आयोजयिष्येते। न्यासेन २०१९ तमे वर्षे देशस्य प्रगत्यै योगदानं दत्तवतः गोयनका-परिवाराणां सदस्याणां सम्मानार्थम् एते वार्षिक-पुरस्काराः प्रारब्धाः आसन्।
गोयनका-सङ्गमस्य धार्मिक-कार्यक्रमा-न्तर्गतं वृन्दावनस्य कथावाचिका साध्वी श्रद्धा-गोपाल-सरस्वती-दीदी सितम्बर-मासस्य षष्ठ-दिनाङ्कात् अष्टम-दिनाङ्कपर्यन्तं त्रिदिनं प्रवचनं दास्यति। प्रवचनकार्यक्रमे स्थानीयजनाः अपि आमन्त्रिताः सन्ति।
कार्यक्रमे गोयनका-समुदायस्य नव-वंशस्य पूर्वजानां इतिहासेन, परम्पराभिः, खान-पान-विधिना, वेशभूषया सामाजिक-संस्कारैश्च परिचितीकरणे विशेषं बलं प्रदास्यते। गोयनका-समुदायस्य भारतीय-उद्योग-जगति प्रायः त्रिशत-वर्षेभ्यः महत्त्वपूर्णं योगदानं वर्तते। समुदायस्य परिवारैः भारतस्य अतिरिक्तं अमेरिका, इङ्ग्लैण्ड्, जापान, दुबई, सिङ्गापुरम् इत्यादिषु विभिन्नेषु देशेषु व्यापारिकासु आर्थिकगतिविधिषु च योगदानं प्रदत्तम् अस्ति।
Hindusthan Samachar / Divya Ranjan