Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ अगस्तमासः (हि.स.)। भारत-अमेरिकयोः मध्ये नागरिक-अन्तरिक्ष-सहयोगं अधिकं सुदृढं कर्तुं भारत-अमेरिकीयनागरिक-अन्तरिक्षसंयुक्त-कार्यसमूहस्य नवमी सभा विगतयोः अगस्तमासस्य ५-६ दिनाङ्कयोः बेङ्गलूरुनगरे स्थिते भारतीय-अन्तरिक्ष-अनुसन्धान-संस्थायाः मुख्यालये आयोजिता। सभायाः आतिथ्यं भारतदेशेन कृतम्।
उद्घाटनसत्रं इसरो-अध्यक्षः तथा अन्तरिक्षविभागस्य सचिवः डॉ. वी. नारायणन्, भारतस्थितः अमेरिकी राजदूतः सर्जियो-गोरश्च सम्बोधितवन्तौ। उभाभ्यां भारत-अमेरिकयोः मध्ये अन्तरिक्षक्षेत्रे सहयोगं विस्तर्तुं रणनैतिकसहभागितां च सुदृढां कर्तुं महत्त्वं प्रतिपादितम्।
सभायाः सह-अध्यक्षतां भारतीयपक्षतः इसरो-संस्थायाः यू. आर. राव-उपग्रहकेन्द्रस्य निदेशकः एम्. शङ्करन् अकरोत्। अमेरिकीपक्षस्य प्रतिनिधित्वं महासागराणां, अन्ताराष्ट्रियपर्यावरणस्य वैज्ञानिकविषयाणां च सहायकविदेशमन्त्री डॉ. वेस्ली-ब्रूक्सः तथा नासायाः अन्तर्राष्ट्रीय-अन्तरसंस्थागतसम्बन्धानां सहायकप्रशासिका कैथलीन्-कारिका च कृतवत्यौ।
सभायां उभाभ्यां देशाभ्यां विगतवर्षे सफलतया सम्पन्नस्य संयुक्तस्य नासा-इसरो-सिन्थेटिक-एपर्चर-रडार अभियानस्य अनन्तरं अन्तरिक्षसहयोगस्य नूतनक्षेत्राणां विषये चर्चा कृता। भविष्ये अन्तरिक्षविज्ञानस्य मानव-अन्तरिक्षयान-सम्बद्धप्रौद्योगिकीनां च क्षेत्रेषु सहयोगस्य विस्तारसम्भावनानां विषये अपि विचारविमर्शः कृतः।
एषा सभा फरवरीमासे २०२५ तमे वर्षे प्रधानमन्त्री नरेन्द्र-मोदीना अमेरिकी राष्ट्रपतिना डोनाल्ड-ट्रम्पेण च प्रकाशितस्य संयुक्तनेतृवक्तव्यस्य अनुरूपं ‘यूएस-इण्डिया स्ट्रेटेजिक टेक्नोलॉजी यूटिलाइजेशन रिलेशनशिप’ इत्यस्य अन्तर्गतं नागरिकस्य वाणिज्यिकस्य च अन्तरिक्षसहयोगस्य प्रगतेः दिशि महत्त्वपूर्णं पदक्षेपम् इति मन्यते।
सभायाः अवधौ नासा-संस्थया आर्टेमिस्-सन्धे: अन्तर्गतं भारतस्य सहभागितां अधिकं अग्रे नेतुं इसरो-संस्थां स्वस्य चन्द्राधार-कार्यक्रमे सम्मिलितुं निमन्त्रितम्। उभाभ्यां देशाभ्यां आर्टेमिस्-सन्धे: अन्तर्गतं मुक्तवैज्ञानिकदत्तांशस्य सहभागोपयोगस्य आदानप्रदानस्य च विषये वार्तां अग्रे नेतुं सहमतिः व्यक्ता। अनेन भविष्येषु चन्द्राभियानेषु अन्तरिक्षविज्ञानसम्बद्धेषु अनुसन्धान-कार्येषु च उभयोः देशयोः वैज्ञानिकानां मध्ये सहयोगः वर्धिष्यते इति अपेक्षा अस्ति।
सभायां भारत-अमेरिकयोः बाह्य-अन्तरिक्षगतिविधीनां दीर्घकालिकस्थिरतां सुनिश्चितुं संयुक्तराष्ट्रस्य बाह्य-अन्तरिक्षस्य शान्तिपूर्णोपयोगसमितेः मार्गदर्शक-सिद्धान्तानां प्रवर्धने स्वकीयां प्रतिबद्धतां पुनरपि दृढीकृतवन्तौ। उभयोः पक्षयोः सीओपीयूओएस-संस्थायाः प्रभाव-शीलतां कायमं कर्तुं प्रचलितानां बहुपक्षीय-प्रयासानां समीक्षाऽपि कृता। अन्तरिक्षस्य शान्तिपूर्णस्य स्थायिनश्च उपयोगाय अन्ताराष्ट्रियसहयोगस्य सुदृढी-करणम् आवश्यकम् इति सभायां बलं दत्तम्।
भारत-अमेरिकयोः वर्धमानः अयं अन्तरिक्ष-सहयोगः न केवलं वैज्ञानिका-नुसन्धानस्य मानव-अन्तरिक्षयानस्य च क्षेत्रे नूतनान् अवसरान् जनयितुं शक्नोति, अपितु चन्द्रान्वेषणं, पृथिव्याः निरीक्षणम्, अन्तरिक्षस्य दीर्घकालिकस्थिरता च इत्यादिषु क्षेत्रेषु उभयोः देशयोः रणनीतिकसहभागितायै नूतनां दिशामपि प्रदातुं शक्नोति।
Hindusthan Samachar / Divya Ranjan