Enter your Email Address to subscribe to our newsletters

कोरबा, ११ अगस्तमासः (हि.स.)। ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं छत्तीसगढस्य उद्योगमन्त्री लखनलाल-देवाङ्गनेन अद्य मङ्गलवासरे कोरबानगरे कोहड़ियास्थिते स्वनिवासे राष्ट्रध्वजः त्रिरङ्गः आरोपितः। तेन तिरङ्गध्वजं प्रति सम्मानं गौरवं च प्रकटयता राष्ट्रं प्रति स्वकीयां प्रतिबद्धतां पुनरपि दृढीकृतम्। अस्मिन् अवसरे तेन प्रदेशवासिभ्यः अपि ‘हर घर तिरंगा’-अभियाने सम्बद्धितुं स्वेषु गृहेषु, प्रतिष्ठानेषु कार्यालयेषु च राष्ट्रध्वजं आरोपयितुं च आह्वानं कृतम्।
उद्योगमन्त्री लखनलाल-देवाङ्गनेन उक्तं यत् राष्ट्रध्वजः त्रिरङ्गः देशस्य एकतायाः, अखण्डतायाः, गौरवस्य स्वाभिमानस्य च प्रतीकम् अस्ति। ‘हर घर तिरंगा’-अभियानस्य माध्यमेन प्रत्येकं नागरिकं राष्ट्रं प्रति स्वकीयं दायित्वं प्रतिबद्धतां च प्रकटयितुं अवसरं प्राप्नोति। तेन प्रदेशस्य सर्वेभ्यः नागरिकेभ्यः अभियाने उत्साहपूर्वकं सहभागितां कर्तुम् आह्वानं कृतम्।
तेन उक्तं यत् जनाः स्वनिवासेषु, प्रतिष्ठानेषु कार्यालयेषु च पूर्णसम्मानेन त्रिरङ्गध्वजम् आरोपयन्तु तथा देशं प्रति स्वकीयं दायित्वं सुदृढं कुर्वन्तु। सहैव विकसितभारतस्य निर्माणे सक्रिययोगदानं दातुं सङ्कल्पं कुर्वन्तु।
मन्त्री देवाङ्गनेन उक्तं यत् देशस्य प्रगतिः केवलं सर्वकारस्य प्रयासैः सम्भवा नास्ति, अपितु अस्यां प्रत्येकस्य नागरिकस्य सहभागिता आवश्यकाऽस्ति। ‘हर घर तिरंगा’-सदृशानि अभियानानि जनानां मनसि राष्ट्रप्रेम्णः, एकतायाः देशं प्रति समर्पणस्य च भावनाः अधिकं सुदृढाः कुर्वन्ति।
कोरबानगरे कोहड़ियास्थिते स्वनिवासे त्रिरङ्गध्वजम् आरोपयन् उद्योगमन्त्री लखनलाल-देवाङ्गनेन प्रदेशवासिभ्यः राष्ट्रहिते एकतया अग्रे गन्तुं सन्देशः प्रदत्तः। तेन सर्वेभ्यः ‘हर घर तिरंगा’-अभियानस्य भागीभूत्वा राष्ट्रध्वजस्य सम्मानपूर्वकं विकसितभारतस्य निर्माणे स्वकीयम् योगदानं दातुम् आह्वानं कृतम्।
Hindusthan Samachar / Divya Ranjan