Enter your Email Address to subscribe to our newsletters

-खिलाड़ियों, अधिकारियों एवं कर्मचारियों ने बढ़-चढ़कर लिया हिस्सा
बिलासपुरम् 11 अगस्तमासः (हि.स.)। ‘‘हरेकगृहे तिरङ्गा इत्यस्य’ अभियानस्य अन्तर्गतं जनपदस्य बहतराईस्थिते खेलो इण्डिया स्टेट सेण्टर ऑफ एक्सीलेन्स इत्यस्मिन् मङ्गलवासरे तिरङ्गायात्रायाः आयोजनं कृतम्। तिरङ्गायात्रायां केन्द्रस्य क्रीडकाः, अधिकारिणः कर्मचारिणश्च उत्साहपूर्वकं सहभागितां कृतवन्तः। हस्तेषु तिरङ्गं गृहीत्वा निर्गतवन्तः क्रीडकाः देशभक्तेः, राष्ट्रियैकतायाः अखण्डतायाश्च सन्देशं प्रदत्तवन्तः।
तिरङ्गायात्रायाः समये सम्पूर्णः परिसरः देशभक्तेः उत्साहेन ओतप्रोतः दृश्यते स्म। क्रीडकाः पूर्णेन जोशेन उत्साहेन च तिरङ्गं लहरयन्तः राष्ट्रस्य प्रति सम्मानस्य गौरवस्य च भावनां प्रकटितवन्तः। अस्मिन् अवसरे उपस्थिताः अधिकारिणः कर्मचारिणश्च अभियानस्य उद्देश्यान् जनजनं प्रति प्रापयितुं नागरिकान् च स्वगृहेषु तिरङ्गं ध्वजं फहरयितुं प्रेरितवन्तः।
खेलो इण्डिया स्टेट सेण्टर ऑफ एक्सीलेन्स इत्यत्र आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यम् क्रीडकेषु युवकेषु च राष्ट्रप्रेम्णः भावनां अधिकं सुदृढां कर्तुं तथा राष्ट्रियध्वजस्य प्रति सम्मानस्य गौरवस्य च भावनां जागरयितुं आसीत्। कार्यक्रमस्य माध्यमेन ‘हरेकगृहे तिरङ्गा’ अभियानस्य सन्देशं व्यापकतया प्रसारयितुं प्रयासः कृतः।
Hindusthan Samachar / Dheeraj Maithani