बुधवासरे प्रधानमन्त्री पूर्वराष्ट्रपतेः रामनाथ-कोविन्दस्य आत्मकथायाः विमोचनं करिष्यति
नवदिल्ली, ११ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे विज्ञानभवने पूर्वराष्ट्रपतेः रामनाथ-कोविन्दस्य आत्मकथायाः ‘ट्रायम्फ ऑफ द इण्डियन रिपब्लिक: माई लाइफ, माई स्ट्रगल्स’ इत्यस्याः विमोचनं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री सभां सम्
प्रधानमंत्री नरेन्द्र मोदी और पूर्व राष्ट्रपति रामनाथ कोविंद (फाइल फोटो)


नवदिल्ली, ११ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे विज्ञानभवने पूर्वराष्ट्रपतेः रामनाथ-कोविन्दस्य आत्मकथायाः ‘ट्रायम्फ ऑफ द इण्डियन रिपब्लिक: माई लाइफ, माई स्ट्रगल्स’ इत्यस्याः विमोचनं करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री सभां सम्बोधयिष्यति।

प्रधानमन्त्रीकार्यालयेन मङ्गलवासरे प्रकाशिते निवेदने उक्तं यत् प्रधानमन्त्रिणा अस्याः आत्मकथायाः विमोचनं भारतस्य एकस्य अत्यन्तप्रतिष्ठितस्य सार्वजनिक-व्यक्तित्वस्य जीवनस्य योगदानस्य च अभिनन्दनस्य विशेषः अवसरः भविष्यति। एषा आत्मकथा रामनाथ-कोविन्दस्य जीवनस्य, संघर्षाणां उपलब्धीनां च व्यक्तिगतयात्रां प्रकाशयति। पुस्तके तस्य प्रारम्भिकजीवनात् आरभ्य सार्वजनिक-जीवनस्य देशस्य चतुर्दशतम-राष्ट्रपतेः रूपेण सेवापर्यन्तं महत्त्वपूर्णानां सोपानानां उल्लेखः कृतः अस्ति।

आत्मकथायां कोविन्दस्य जीवनं आकारयितुं प्रमुखभूमिकां निर्वहद्भिः मूल्यानुभवैः परिस्थितिभिश्च सह अपि प्रकाशः पातितः अस्ति। एतत् पुस्तकं तस्य सार्वजनिकजीवनस्य देशसेवायाः च काले प्राप्तानाम् अनुभवानाां व्यक्तिगत-दृष्टिकोणं प्रस्तौति।

Hindusthan Samachar / Divya Ranjan