शिवत्रयोदश्यां भगवत: आशुतोषस्य जलाभिषेकाय समागताः कांवड़धारिणः श्रद्धालवश्च
मुरादाबादः, ११ अगस्तमासः (हि.स.)। श्रावणमासस्य शिवरात्रौ मङ्गलवासरे मुरादाबादजनपदस्य प्रमुखसिद्धपीठेषु सर्वेषु च मन्दिरेषु प्रातःकालाद् मध्याह्नपर्यन्तं भगवत: आशुतोषस्य जलाभिषेकः कृतः। प्राचीनसिद्धपीठेषु कांवड़धारिणः प्रातः चतुर्वादनादेव जलाभिषेकम्
नागफनी स्थित झारखंडी शिव मंदिर में जलाभिषेक करते श्रद्धालु।


मुरादाबादः, ११ अगस्तमासः (हि.स.)। श्रावणमासस्य शिवरात्रौ मङ्गलवासरे मुरादाबादजनपदस्य प्रमुखसिद्धपीठेषु सर्वेषु च मन्दिरेषु प्रातःकालाद् मध्याह्नपर्यन्तं भगवत: आशुतोषस्य जलाभिषेकः कृतः। प्राचीनसिद्धपीठेषु कांवड़धारिणः प्रातः चतुर्वादनादेव जलाभिषेकम् आरब्धवन्तः। कांवड़धारिणां शिवभक्तानां च दीर्घाः पङ्क्तयः मध्याह्नपर्यन्तं दृश्यन्ते स्म।

मुरादाबादमहानगरे किसरोलस्थिते अतीवप्राचीनसिद्धपीठे चतुरशीतिघण्टा-मन्दिरे नागफनीस्थिते झारखण्डी-शिवमन्दिरे च अद्य प्रातः चतुर्वादनादेव शिवभक्तैः कांवड़धारिभिश्च जलाभिषेकः प्रारब्धः। श्रद्धालवः ‘बम्-बम् भोले’ तथा ‘हर-हर महादेव’ इति जयघोषैः सह भगवत: आशुतोषस्य जलाभिषेकं कृत्वा पूजामर्चनां च कृतवन्तः। मध्याह्नपर्यन्तं शताधिकैः कांवड़-धारिसमूहैः मन्दिरे जलाभिषेकः कृतः। बहुसंख्यया डाक-कांवड़ अपि अर्पिता।

अन्येषु मन्दिरेषु श्रद्धालुभिः शिवपरिवारस्य जलाभिषेकं कृत्वा बिल्वपत्रं, धत्तूरं, फलानि, पुष्पाणि, अक्षतान्, चन्दनं, धूपं, तृणं, मिष्टान्नादीनि समर्प्य पूजार्चना च कृता।

Hindusthan Samachar / Divya Ranjan