Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ अगस्तमासः (हि.स.)। लोकसभायां मङ्गलवासरे केरलराज्यस्य नाम परिवर्त्य ‘केरलम्’ इति कर्तुं सम्बन्धितं विधेयकं कोलाहलस्य मध्ये विना चर्चां ध्वनिमतेन पारितम्।
केन्द्रीयगृहराज्यमन्त्री नित्यानन्द-रायः अद्य सदने कोलाहलस्य मध्ये ‘केरल विधेयकम्, २०२६’ चर्चार्थं प्रस्तुतवान् तथा संक्षेपेण उत्तरमपि दत्तवान्। तेन आरोपितं यत् विधेयकस्य पारिते किञ्चित् काङ्ग्रेससांसदैः विरोधः कृतः। अपरं च संसदीयकार्यमन्त्री किरेण-रिजिजू विधेयकस्य पारितेः अनन्तरं खेदं प्रकटयन् अवदत् यत् वरिष्ठसदस्यः के. सी. वेणुगोपालः विधेयके वक्तुं अवसरं न प्राप्तवान्।
उल्लेखनीयं यत् लोकसभायां विगतद्विसप्ताहात् प्रचलितः व्यवधानक्रमः अद्यापि निर्गता आसीत्। कोलाहलस्य मध्ये सर्वकारः निरन्तरं उभयोः सदनयोः कतिपयानि आवश्यकानि विधायीकार्याणि सम्पादयति। अस्यैव क्रमे अद्य केरलराज्यस्य नामपरिवर्तनसम्बद्धं विधेयकं विना चर्चां पारितम्।
मलयालमभाषायां राज्यस्य पारम्परिकं नाम ‘केरलम्’ एव अस्ति। अस्य सांस्कृतिकपरिचयस्य आधिकारिकं मान्यतां प्रदातुं विधेयकमिदम् आनीतम् अस्ति। अस्य अन्तर्गतं भारतीयसंविधानस्य प्रथमायां अनुसूच्यां आवश्यकानि संशोधनानि करिष्यन्ते। नामपरिवर्तनेन सह राज्यसम्बद्धेषु अन्येषु संवैधानिकेषु प्रशासनिकेषु च तथ्येषु आवश्यकानि आनुषङ्गिकानि संशोधनानि अपि अन्तर्भवन्ति।
केरलविधानसभया २४ जून्, २०२४ दिनाङ्के सर्वसम्मत्या एकः सङ्कल्पः पारितः आसीत्, यस्मिन् केन्द्रसर्वकारात् राज्यस्य नाम परिवर्तयितुं अनुरोधः कृतः आसीत्। अस्मिन् सङ्कल्पे उक्तम् आसीत् यत् भारतीयसंविधानस्य अनुच्छेदस्य ३ इत्यस्य अन्तर्गतं आवश्यकानि पदानि स्वीकृत्य प्रथमायां अनुसूच्यां संशोधनं क्रियताम् तथा राज्यस्य नाम ‘केरल’ इत्यस्मात् ‘केरलम्’ इति परिवर्त्यताम्।
संविधानस्य अनुच्छेदस्य ३ इत्यस्य प्रावधानानाम् अन्तर्गतं राष्ट्रपतिना स्वमतं व्यक्तीकर्तुं विधेयकमिदं केरलराज्य-विधानमण्डलाय प्रेषितम् आसीत्। केरलविधानसभया ‘केरल (नाम-परिवर्तन) विधेयकम्, २०२६’ इत्यस्मिन् गहनविचारविमर्शः कृतः तथा विधेयकं सर्वसम्मत्या पारितम्।
Hindusthan Samachar / Divya Ranjan