Enter your Email Address to subscribe to our newsletters

- 16 दिनांकम् अगस्तमासीयं यावत्12 राज्यानां प्रायेण100 राष्ट्रिय-अंताराष्ट्रिय सेलर्स इत्येते दर्शयिष्यन्ति बलम्
भोपालम्, 11 अगस्तमासः (हि.स.)।
मध्यप्रदेशस्य राजधानी भोपालनगरं पुनरपि देशस्य बृहद् जलक्रीडायोजनानां केन्द्रं भवितुं गच्छति। अत्र अपर लेक इत्यस्य तटे स्थिते बोट क्लब इत्यस्य जलक्रीडाकेन्द्रे अद्य मङ्गलवासरात् क्रीडायुवा कल्याणविभागस्य पक्षतः ‘राजा भोज मल्टीक्लास नेशनल सेलिंग चैम्पियनशिप रैंकिंग २०२६’ इति प्रतियोगितायाः आयोजनं क्रियमाणम् अस्ति।
जनसम्पर्काधिकारी दुर्गेश रायकवारः उक्तवान् यत् षोडश अगस्तपर्यन्तं चलिष्यन्त्याः षड्दिवसीयायाः अस्याः राष्ट्रियस्तरीयायाः प्रतियोगितायां देशस्य सर्वेभ्यः भागेभ्यः प्रतिभावन्तः सेलर्स इति नौकायानक्रीडकाः स्ववेगस्य सन्तुलनस्य तान्त्रिककौशलस्य च प्रदर्शनं करिष्यन्ति।
सः उक्तवान् यत् राष्ट्रियक्रमाङ्कनस्य अस्यां प्रतिष्ठितायां प्रतियोगितायां देशस्य द्वादशभ्यः राज्येभ्यः विविधेभ्यः प्रतिष्ठितेभ्यः क्रीडासंघेभ्यः च प्रायः शतं राष्ट्रियान्ताराष्ट्रियस्तरीयाः क्रीडकाः भागं गृह्णन्ति। प्रतियोगितायां अनुभवीक्रीडकैः सह उदयमानप्रतिभानां कृते अपि राष्ट्रियस्तरे स्वक्षमतायाः प्रदर्शनस्य अवसरः प्राप्स्यते। अपर लेक इत्यस्य अनुकूलपरिस्थितिषु क्रीडकानां मध्ये रोमाञ्चकाः स्पर्धाः द्रष्टुं लप्स्यन्ते।
वाइआई इत्यस्य तान्त्रिकमार्गदर्शनेन भविष्यति आयोजनम्
सः उक्तवान् यत् प्रतियोगितायाः राष्ट्रियान्तर्राष्ट्रीयमानदण्डानुरूपं आयोजनं कर्तुं यॉटिंग एसोसिएशन ऑफ़ इंडिया वाइआई इत्यस्य तान्त्रिकमार्गदर्शनं प्राप्यते। वाइआई इत्यस्य द्वादश निर्णायकसदस्याः पदाधिकारिणश्च आयोजनाय भोपालनगरं प्राप्तवन्तः। प्रतियोगितायाः सञ्चालनस्य तान्त्रिकव्यवस्थानां निर्णयनप्रक्रियायाश्च वाइआई इत्यस्य महत्त्वपूर्णा भूमिका भविष्यति। सहैव भारतीयक्रीडाप्राधिकरणस्य साई इत्यस्य वरिष्ठाः अधिकारिणः अपि आयोजने सम्बद्धाः भविष्यन्ति।
मध्यप्रदेश याटिंग एसोसिएशन इत्यस्य भविष्यति समन्वयः
क्रीडायुवा कल्याणविभागेन आयोज्यमानायाः अस्याः राष्ट्रियप्रतियोगितायाः सञ्चालनकार्ये मध्यप्रदेश याटिंग एसोसिएशन इत्यस्य विशेषः समन्वयः भविष्यति। आयोजनस्य माध्यमेन प्रदेशे सेलिंग इत्यस्य अन्येषां च जलक्रीडानां अधिकं प्रोत्साहनं दास्यते। सहैव स्थानीयप्रतिभानां राष्ट्रियस्तरीयैः क्रीडकैः सह स्पर्धां कर्तुं अवसरः प्राप्स्यते।
जलक्रीडानां केन्द्रत्वेन परिचयं प्राप्नोति भोपालनगरम्
अपर लेक इत्यस्य तटे निरन्तरं राष्ट्रियान्तर्राष्ट्रीयस्तरस्य प्रतियोगितानाम् आयोजनैः भोपालनगरं देशस्य प्रमुखजलक्रीडाकेन्द्ररूपेण विशिष्टं परिचयं प्राप्तवान् अस्ति। मध्यप्रदेश वाटर स्पोर्ट्स अकादमी इत्यत्र क्रीडकाः आधुनिकसुविधाभिः विशेषज्ञप्रशिक्षणेन च राष्ट्रियान्तर्राष्ट्रीयप्रतियोगिताभ्यः सज्जीक्रियन्ते।
विदेशीयविशेषज्ञाणां निरीक्षणे सज्जीक्रियन्ते विजेतारः
मध्यप्रदेश वाटर स्पोर्ट्स अकादमी इत्यस्य क्रीडकान् अन्ताराष्ट्रियस्तरीयप्रतियोगिताभ्यः सज्जीकर्तुं क्रीडायुवा कल्याणविभागेन अन्ताराष्ट्रियस्तरस्य विदेशीयप्रशिक्षकाणां सेवाः अपि स्वीक्रियन्ते। विशेषज्ञप्रशिक्षकाणां मार्गदर्शने क्रीडकाः तन्त्रज्ञानस्य शारीरिकक्षमतायाः रणनीतेः प्रतियोगितायाः दबावस्य च सम्मुखीकरणक्षमतायाः विषये निरन्तरं कार्यं कुर्वन्ति।
राष्ट्रियप्रतियोगितया प्रदेशस्य प्रतिभाभ्यः प्राप्स्यते अवसरः
‘राजा भोज मल्टीक्लास नेशनल सेलिंग चैम्पियनशिप’ इत्यादीनाम् आयोजनानां माध्यमेन मध्यप्रदेशस्य युवा क्रीडकानां देशस्य शीर्षस्थसेलर्स इति नौकायानक्रीडकैः सह स्पर्धां कर्तुं स्वप्रतिभायाः परिष्कारं च कर्तुम् अवसरः प्राप्स्यते। क्रीडायुवा कल्याणविभागस्य उद्देश्यम् अस्ति यत् प्रदेशे जलक्रीडानां व्यापकस्तरे प्रोत्साहनं दत्त्वा क्रीडकानां राष्ट्रियान्ताराष्ट्रियस्तरे उत्कृष्टप्रदर्शनाय उत्तमं मञ्चं प्रशिक्षणं च प्रदातव्यम्।
भोपालनगरे अगस्तमासस्य एकादशदिनाङ्कात् अपर लेक इत्यस्य तटे प्रारभ्यमाणा इयं प्रतियोगिता न केवलं देशस्य सर्वेभ्यः भागेभ्यः आगतानां शीर्षस्थसेलर्स इति नौकायानक्रीडकानां कौशलस्य वेगस्य च परीक्षा भविष्यति, अपि तु भोपालनगरस्य जलक्रीडाक्षमतानां मध्यप्रदेशस्य क्रीडाप्रतिभानां च राष्ट्रियमञ्चे प्रदर्शनस्य महत्त्वपूर्णः अवसरः अपि भविष्यति।
---------------
Hindusthan Samachar / अंशु गुप्ता