Enter your Email Address to subscribe to our newsletters

नोएडा, 11 अगस्तमासः (हि.स.)।
ग्रेटर नोएडास्थिते इण्डिया एक्स्पो मार्ट इत्यत्र अद्य त्रिदिवसीयस्य इण्डिया बायो एनर्जी एण्ड टेक एक्स्पो २०२६ इत्यस्य शुभारम्भः अभवत्। बुधवासरे उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अस्मिन् कार्यक्रमे सहभागितां करिष्यति। तस्य सुरक्षां दृष्ट्वा षट्शताधिकाः पुलिसकर्मचारिणः नियोजिताः सन्ति। एक्स्पोमध्ये पञ्चविंशतिः परिसंवादाः भविष्यन्ति। देशविदेशेभ्यः एकशताधिकविंशतिः वक्तारः भागं ग्रहीष्यन्ति। प्रायः पञ्चदशसहस्रं व्यावसायिकाः आगन्तुकाः भविष्यन्ति। एकशतपञ्चाशत् कम्पन्यः स्वोत्पादानां प्रदर्शनं कुर्वन्ति।
इण्डियन फेडरेशन ऑफ ग्रीन एनर्जी तथा उत्तरप्रदेश न्यू एण्ड रिन्यूएबल एनर्जी डेवलपमेण्ट एजेन्सी इत्येताभ्यां संस्थाभ्यां आयोजितः अयं एक्स्पो जैवऊर्जाक्षेत्रस्य प्रमुखेषु राष्ट्रियेषु अन्तर्राष्ट्रियेषु च मञ्चेषु अन्यतमः अस्ति। आयोजकानां अनुसारम् एक्स्पोमध्ये पञ्चविंशत्यधिकाः सम्मेलनसत्राः आयोजिताः सन्ति। एतेषु एकशतविंशत्यधिकाः राष्ट्रियाः अन्तर्राष्ट्रियाश्च वक्तारः, एकशतपञ्चाशदधिकाः प्रदर्शकाः, सहस्राधिकाः प्रतिनिधयः तथा प्रायः पञ्चदशसहस्रं व्यावसायिकाः आगन्तुकाः सम्मिलिताः भविष्यन्ति।
सम्मेलने संपीडितजैववायुः, एथेनॉल, जैवडीजल, स्थायिविमानन-इन्धनम्, हरितहाइड्रोजनम्, अपशिष्टात् ऊर्जानिर्माणम्, जैवभारः, जैवगतिशीलता, कार्बनबाजारः तथा कार्बनग्रहणं, उपयोगः भण्डारणं च इत्यादिषु विषयेषु विशेषज्ञैः चर्चा क्रियते।
आयोजकानां कथनमस्ति यत् एक्स्पोस्य उद्देश्यं उत्तरप्रदेशं भारतस्य प्रमुखजैवऊर्जाकेन्द्ररूपेण प्रतिष्ठापयितुम् अस्ति। अस्मिन् राज्यस्य प्रगतिशीलाः नीतयः, जैवभारस्य उपलब्धाः संसाधनानि, तीव्रगत्या वर्धमाना एथेनॉलस्य संपीडितजैववायोश्च क्षमता तथा जैवऊर्जामूल्यशृङ्खलायां निवेशस्य सम्भावनाः प्रदर्श्यन्ते।
इण्डियन फेडरेशन ऑफ ग्रीन एनर्जी इत्यस्य महानिदेशकः सञ्जय गञ्जू इत्यनेन कथितं यत् उत्तरप्रदेशे जैवऊर्जाक्षेत्रस्य विकासाय आवश्यकाः सर्वे प्रमुखाः आधाराः विद्यमानाः सन्ति। तेन कथितं यत् अनेन एक्स्पोमहोत्सवेन सम्पूर्णविश्वस्य प्रमुखाः प्रौद्योगिकीकम्पनयः, निवेशकाः नीतिनिर्मातारश्च एकस्मिन् मञ्चे समागताः सन्ति, येन निवेशस्य, नवाचारस्य सहयोगस्य च नूतनाः अवसराः उत्पद्यन्ते।
‘इण्डिया बायो एनर्जी एण्ड टेक एक्स्पो २०२६’ इत्यस्य अयं तृतीयः संस्करणः अस्ति। अस्मिन् देशविदेशेभ्यः बहुसंख्याकाः प्रतिभागिनः सम्मिलिताः भवन्ति। अनेन आयोजनस्य माध्यमेन भारतस्य स्वच्छऊर्जासंक्रमणाय गतिः प्राप्स्यते। तदनन्तरं जैवऊर्जानवाचारस्य निवेशस्य च वैश्विककेन्द्ररूपेण उत्तरप्रदेशस्य भूमिका अधिकं सुदृढा भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani