Enter your Email Address to subscribe to our newsletters

नोएडा, ११ अगस्तमासः (हि.स.)। श्रावणस्य शिवरात्रेः अवसरे मङ्गलवासरे प्रातःकालादेव जनपदस्य प्रमुखेषु देवालयेषु श्रद्धालूनां महान् सम्मर्द: समुपस्थित:। जनाः देवालयेषु जलाभिषेकं कुर्वन्ति। सम्पूर्णं नगरं ‘हर-हर-महादेव’ इति जयघोषैः गुञ्जायमानम् अभवत्। सर्वत्र शिवभक्ताः कांवडिया: ‘बम्-बम्’ इति जयघोषं कुर्वन्तः, डीजे-वाद्येषु भक्तिगीतानां मध्ये नृत्यं कुर्वन्तः च जलाभिषेकाय देवालयेषु प्राप्नुवन्ति। तैः सह तेषां परिवारजनाः, ग्राम-समाजस्य जनाः सम्बन्धिनश्च अपि देवालयेषु समागच्छन्ति। शिवभक्त-कांवडियानां आवागमनं दृष्ट्वा नोएडा-आरक्षकविभागेन सुरक्षायाः सुदृढाः व्यवस्थाः कृताः।
श्रद्धालूनां सुरक्षा, जनसमूहस्य नियन्त्रणं तथा यातायात-व्यवस्थां सुनिश्चितं कर्तुं प्रायः २५०० आरक्षककर्मिणः नियोजिताः सन्ति। देवालयानां अतिरिक्तं कांवड-मार्गेष्वपि अतिरिक्तं आरक्षकबलं नियोजितम् अस्ति। यातायात-विभागः विशेषरूपेण सतर्कः कृतः अस्ति।
अपर-आरक्षक-आयुक्त: राजीव-नारायण-मिश्रः अवदत् यत् धार्मिकस्थलेषु जनसमूहस्य सुव्यवस्थां स्थापयितुं तथा कस्यापि अव्यवस्थायाः निवारणं कर्तुं प्राथमिकता अस्ति। आरक्षककर्मिभ्यः संदिग्ध-गतिविधीनां निरीक्षणेन सह श्रद्धालूनां साहाय्यं कर्तुं निर्देशाः दत्ताः सन्ति। मङ्गलवासरे देवालयेषु कांवड-मार्गेषु च ३००० सीसीटीवी-कैमरा-यन्त्रैः तथा ३० ड्रोन-यन्त्रैः निरीक्षणं क्रियते। कृत्रिम-बुद्धिमत्ता-आधारित-कैमरा-यन्त्रैः जनसमूहस्य आकलनं तथा संदिग्ध-गतिविधीनां परिचयः क्रियते। आरक्षक-विभागः सामाजिक-माध्यमेष्वपि निरीक्षणं स्थापयति। जनसमूहमध्ये सादे-वस्त्रधारिणः आरक्षककर्मिणः अपि नियोजिताः सन्ति।
तथैव जनपदाधिकारी मेधा-रूपमः तथा आरक्षक-आयुक्ता लक्ष्मी-सिंहः नोएडा-ग्रेटर-नोएडा-क्षेत्रयोः कांवड-यात्रायाः सज्जतायाः सुरक्षाव्यवस्थायाश्च निरीक्षणं कृतवन्तौ। अत्र सर्वेषु देवालयेषु प्रातःकालादेव जलार्पणं प्रारब्धम् अस्ति। शिवभक्ताः बहुसंख्यया देवालयेषु समागत्य जलाभिषेकं कुर्वन्ति। शिवभक्तानां कांवडियानां च आगमनेन सम्पूर्णं नगरं शिवमयं जातम्।
Hindusthan Samachar / Divya Ranjan