परशुरामेश्वर महादेव मंदिरे 15 लक्षम् अकुर्वन् जलाभिषेकम्
बागपतम्, 11 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य बागपतजनपदे श्रावणमासस्य पावनावसरे जनपदस्य बालैनीपुराग्रामे स्थिते परशुरामेश्वरमहादेवमन्दिरे मङ्गलवासरे प्रातः त्रिवादनानन्तरं पूजाऽर्चनया ध्वजारोहणेन च जलाभिषेकस्य शुभारम्भः अभवत्। शिवचतुर्दश्याः अवसर
जलाभिषेक करते शिवभक्त


बागपतम्, 11 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य बागपतजनपदे श्रावणमासस्य पावनावसरे जनपदस्य बालैनीपुराग्रामे स्थिते परशुरामेश्वरमहादेवमन्दिरे मङ्गलवासरे प्रातः त्रिवादनानन्तरं पूजाऽर्चनया ध्वजारोहणेन च जलाभिषेकस्य शुभारम्भः अभवत्। शिवचतुर्दश्याः अवसरे यथैव जलाभिषेकः प्रारब्धः, तथैव लक्षशः शिवभक्तानां श्रद्धा मन्दिरपरिसरे समागता। प्रातःकालादेव मन्दिरे ‘हर हर महादेव’ इति जयघोषाः प्रतिध्वनिताः तथा श्रद्धालवः दीर्घासु पङ्क्तिषु स्थित्वा भगवान् शिवस्य जलाभिषेकं कुर्वन्तः दृश्यन्ते स्म।

मन्दिरस्य मुख्यपुरोहितः जयभगवान्शर्मा अवदत् यत् अद्यावधि प्रायः पञ्चदशलक्षं कांवडधारिणः जलाभिषेकं कृतवन्तः तथा सायंकालपर्यन्तम् एषा संख्या अधिका भवितुम् अर्हति। समीपवर्तिभ्यः क्षेत्रेभ्यः अपि बहुसंख्यया श्रद्धालवः मन्दिरं प्राप्नुवन्ति। त्रिदिवसीयस्य कांवडमेलस्य समापनं मङ्गलवासरे सायंकाले भविष्यति।

मेलस्य सुरक्षाव्यवस्थां प्रति प्रशासनं पूर्णतया सतर्कं दृश्यते स्म। सोमवासरे रात्रौ अपरमहानिदेशकः भानुभास्करः तथा बागपतस्य पुलिसाधीक्षकः स्थलमागत्य व्यवस्थायाः निरीक्षणं कृतवन्तौ। मेलके प्रायः त्रिसहस्रं पुलिसकर्मचारिणां नियुक्तिः कृता अस्ति, ये सुरक्षाव्यवस्थां सुव्यवस्थितरूपेण सञ्चालयन्ति। स्थलेषु स्थलेषु अवरोधकव्यवस्था, सीसीटीवीमाध्यमेन निरीक्षणं तथा पुलिसकर्मचारिणां सतर्कतया व्यवस्था सुदृढा अभवत्।

तत्रैव प्रशासनस्य पक्षतः स्वच्छताभियानमपि सञ्चालितम्, येन मन्दिरपरिसरः समीपवर्तिक्षेत्रं च स्वच्छं सुव्यवस्थितं च स्थितम्। अस्मिन् वर्षे बागपतस्य युवा अमनकुमारेण निर्मितं कांवड-अनुप्रयोगमपि श्रद्धालूनां कृते अत्यन्तम् उपयोगि सिद्धम्। अद्यावधि पञ्चविंशतिसहस्राधिकैः कांवडधारिभिः अस्य अनुप्रयोगस्य उपयोगः कृतः, येन तेभ्यः मार्गदर्शनं विविधाः सुविधाश्च प्राप्ताः। लक्षशः कांवडधारिणः अस्मात् अनुप्रयोगात् लाभान्विताः अभवन्।

बागपतस्य जिलाधिकारी अस्मिता लाल् प्रातः ध्वजपूजनानन्तरं मन्दिरपरिसरे एव स्थिता अस्ति। बागपतस्य पुलिसाधीक्षकः सूरजकुमाररायः तया सह उपस्थितः अस्ति। जलाभिषेकस्य समये सः स्वयमेव व्यवस्थाः पर्यवेक्षते।

---------------

Hindusthan Samachar / Dheeraj Maithani