Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ अगस्तमासः (हि.स.)। केन्द्रसर्वकारेण मङ्गलवासरे आयोजिते एकादशे जनपदाधिकारी-पेयजल-संवादे जलजीवनमिशन्-२.० इत्यस्य शीघ्रतया क्रियान्वयनाय, जलसंरक्षणस्य प्रोत्साहनाय, ग्रामीणजलापूर्तेः स्थायित्वाय च बलं दत्तम्। सभायां ‘सुजलाम् शक्तिः’ इति कार्यमार्गचित्रं प्रस्तुतम्। चत्वारः जनपदाः—उत्तरकन्नडः, खोवाई (त्रिपुराराज्यम्), दिदवाना-कुचामनः (राजस्थानम्) तथा चतरा (झारखण्डम्)—स्वकीयान् नवाचारान् सहभागं कृतवन्तः। एतेषु जलस्रोतसां स्थायित्वं, सूचना-निवारणम्, व्यवहारपरिवर्तनं, सामुदायिकसहभागिता च प्रमुखोपायाः आसन्।
इयं सभा पेयजल-स्वच्छताविभागेन दृक्श्राव्यमाध्यमेन आयोजिताऽभवत्। अस्यां सचिवः अशोकः के. के. मीणा, राष्ट्रियजलजीवनमिशनस्य अभियान-ननिदेशकः कमलः किशोरः सोआनः, वरिष्ठाधिकारिणः, जिलाधिकारिणः, उपायुक्ताश्च सहभागितां कृतवन्तः।
सचिवः मीणा जनपदेभ्यः नियमितरूपेण मासिकसभाः आयोजयितुं तथा तासां कार्यविवरणं पटले उपारोपयितुं निर्दिष्टवान्। तेन ‘कैच द रेन—जलसञ्चय जनसहभागिता’ अभियानं ग्रामपञ्चायतेषु, स्वसहायतासमूहेषु, विद्यालयेषु, महाविद्यालयेषु च सक्रियतया प्रसारयितुं आह्वानं कृतम्। अद्यावधि देशस्य द्विलक्षाधिकाः ग्रामाः तथा एकलक्षाधिकाः ग्रामपञ्चायताः ‘हर घर जल’ इति प्रमाणपत्रं प्राप्तवन्तः।
सभायां सहभागकृतेषु नवाचारेषु उत्तरकन्नडेन सरोवराणां कूपानां च मानचित्रणं कृत्वा दीर्घकालिक-जलसुरक्षायोजनायाः निर्माणम्, खोवाई-जनपदप्रशासनेन विद्यालयीयजल-समितीनां गठनं तथा महिलानां जलगुणवत्तापरीक्षणे प्रशिक्षणं, दिदवाना-कुचामनेन फ्लोराइड्-लवणता-समस्यायाः निवारणाय पृष्ठीय-जलाधारितजलापूर्तिव्यवस्थायाः स्थापना तथा पारम्परिकजलसंरचनानां पुन-रुज्जीवनम्, चतराजिलेन ‘पेयजल-समस्यानिवारणपखवाडा’ इति अभियानं चालयित्वा सूचनानां शीघ्रं समाधानं च प्रमुखानि आसन्।
अभियाननिदेशकः सोआनः जनपदेभ्यः दत्तांशाधारितनिर्णयान् कर्तुं, जनपद-तकनीकी-एककानि सुदृढीकर्तुं तथा महिलाभ्यः प्रशिक्षणं प्रदाय स्थानीय-तकनीकीक्षमतां वर्धयितुं च निर्दिष्टवान्। तेन उक्तं यत् एतेषां नवाचाराणां माध्यमेन ‘हर घर जल’ इति लक्ष्यं शीघ्रतया प्राप्तुं साहाय्यं भविष्यति।
Hindusthan Samachar / Divya Ranjan