प्रधानमन्त्री मोदी सुभाषिते जीवनं प्रकाशयन्ति ये अष्ट गुणाः तान् रेखांकितवान्
नवदिल्ली, ११ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी मङ्गलवासरे लिखिते सुभाषिते व्यक्तेः जीवनं प्रकाशयन्तः चरित्रस्य च निर्माणं कुर्वन्तः अष्ट आवश्यकगुणान् रेखांकितवान्। प्रधानमन्त्री एक्स्-माध्यमे लिखितवान्—अष्टौ गुणाः पुरुषं दीप्यन्ति प्र
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नवदिल्ली, ११ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी मङ्गलवासरे लिखिते सुभाषिते व्यक्तेः जीवनं प्रकाशयन्तः चरित्रस्य च निर्माणं कुर्वन्तः अष्ट आवश्यकगुणान् रेखांकितवान्।

प्रधानमन्त्री एक्स्-माध्यमे लिखितवान्—अष्टौ गुणाः पुरुषं दीप्यन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च।संयोगश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च।।

अस्य अर्थः अस्ति— एते अष्ट गुणाः व्यक्तेः जीवनं प्रकाशयन्ति। ज्ञानं तस्मै सम्यक् मार्गं दर्शयति। सदाचारः तस्य चरित्रं शुद्धं स्थापयति, आत्मसंयमश्च तं अनुशासितं करोति। ज्ञानं तस्मै बोधं प्रददाति, साहसं च तं कठिनपरिस्थितिषु दृढं स्थातुं साहाय्यं करोति। कुशलवाणी च तस्मै समाजे सम्मानं प्रददाति। स्वसामर्थ्यानुसारं दानं करणं तथा दयालुतायै कृतज्ञता-प्रकाशनं च व्यक्तिं पूर्णं करोति।

Hindusthan Samachar / Divya Ranjan