Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ अगस्तमासः (हि.स.)। रचनात्मक-काङ्ग्रेसस्य द्विदिवसीय-राष्ट्रीयाधिवेशनं बुधवासरात् कांस्टी-ट्यूशन-क्लब इत्यत्र भविष्यति। अधिवेशने शिक्षायाः, सामाजिकन्यायस्य, आर्थिक-न्यायस्य, बेरोजगारस्य पर्याव-रणस्य च सहितं जनसामान्यैः सम्बद्धेषु विषयेषु चर्चा भविष्यति। अस्मिन् प्रथमदिने प्रायः चत्वारिंशदधिकशतं प्रतिनिधयः तथा द्वितीयदिने प्रायः षड्शतं प्रतिनिधयः देशस्य विभिन्नेभ्यः भागेभ्यः सहभागितां करिष्यन्ति।
रचनात्मक-काङ्ग्रेसस्य अध्यक्षः सन्दीप-दीक्षितः मङ्गलवासरे पत्रकारवार्तायां अवदत् यत् अधिवेशनस्य प्रथमदिने सङ्गठनस्य रचनात्मक-काङ्ग्रेसस्य च रणनीतिविषये चर्चा भविष्यति। द्वितीयदिने प्रथमदिने कृतानां चर्चानां समीक्षा करिष्यते। ततः काङ्ग्रेसाध्यक्षः मल्लिकार्जुन-खरगे तथा लोकसभायां विपक्षनेता राहुलगान्धी कार्यक्रमं सम्बोधयिष्यतः।
तेन उक्तं यत् उभयोः दिवसयोः अधिवेशनस्य मुक्तसत्रं भविष्यति। अस्मिन् जनानां प्रश्नाः स्वीकृत्य तेषाम् उत्तराणि प्रदास्यन्ते। रचनात्मक-काङ्ग्रेसः एतादृशं मञ्चम् अस्ति, यत्र सामाजिकान्, आर्थिकान्, राजनैतिकान् च विषयान् उत्थापयन्तः जनाः एकत्र आगन्तुं शक्नुवन्ति।
दीक्षितेन उक्तं यत् रचनात्मक-काङ्ग्रेसः तेषां जनै: सह संवादस्य मञ्च: अस्ति, ये जनानां जीवने परिवर्तनं आनेतुं संघर्षं कुर्वन्ति तथा धरातलस्तरे सम्बद्धाः भूत्वा कार्यं कुर्वन्ति।
तेन उक्तं यत् प्रथमदिवसीयाधिवेशनस्य समयः प्रातः दशवादने निर्धारितः आसीत्, किन्तु स्वातन्त्र्यदिवसस्य सज्जतायाः कारणेन कार्यक्रमस्य समयः परिवर्त्य मध्याह्नद्वादशवादनं कृतः अस्ति। कार्यक्रमस्य प्रारम्भे काङ्ग्रेसाध्यक्षः मल्लिकार्जुन-खरगे सम्बोधयिष्यति, यदा तु मध्याह्नद्विवादनानन्तरं राहुलगान्धी जनैः सह संवादं करिष्यति।
Hindusthan Samachar / Divya Ranjan