उत्तर प्रदेशे प्रचंड बहुमतेन तृतीयवारं निर्मास्यते भाजपासर्वकारः - केशव प्रसाद मौर्यः
लखनऊ, 11 अगस्तमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् समाजवादीपक्षः, बहुजनसमाजपक्षः तथा काङ्ग्रेसपक्षः २०२७ तमे वर्षे यावतीमपि राजनैतिकां खिचडीं पाचयन्तु, तथापि जनता तेषां प्रलोभने न पतिष
केशव प्रसाद मौर्य


लखनऊ, 11 अगस्तमासः (हि.स.)।भारतीयजनतापक्षस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः अवदत् यत् समाजवादीपक्षः, बहुजनसमाजपक्षः तथा काङ्ग्रेसपक्षः २०२७ तमे वर्षे यावतीमपि राजनैतिकां खिचडीं पाचयन्तु, तथापि जनता तेषां प्रलोभने न पतिष्यति। उत्तरप्रदेशस्य जनतया एतस्य विसदृशस्य अवसरवादिनः च गठबन्धनस्य कटुरसं पूर्वमेव अनुभूतः अस्ति।

अखिलेशयादवः, मायावती तथा राहुलगान्धी स्वीयं सम्पूर्णं बलं प्रयुञ्जताम्, तथापि ते भारतीयजनतापक्षं तृतीयवारं सर्वकारनिर्माणात् निवारयितुं न शक्नुवन्ति। उपमुख्यमन्त्री मङ्गलवासरे स्वस्य सामाजिकमाध्यमप्रकाशने लिखितवान् यत् २०२७ तमे वर्षे विपक्षस्य सर्वे राजनैतिकाः मनोरथाः पुनरपि निष्फलाः भविष्यन्ति तथा उत्तरप्रदेशे तृतीयवारं प्रचण्डबहुमतेन भारतीयजनतापक्षस्य सर्वकारः निर्मास्यते।

केशवप्रसादमौर्यः लिखितवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः सशक्तनेतृत्वे ‘विकसितभारत’ इति सङ्कल्पं सिद्धीकर्तुं उत्तरप्रदेशसहिते सम्पूर्णे देशे द्विचक्रसर्वकाराः विकासस्य नूतनां गाथां लिखन्ति। भारतीयजनतापक्षः यत्र एकवारं सर्वकारं निर्माति, तत्र स्वस्य सुशासनस्य आधारेण जनानां अखण्डविश्वासं पुनः पुनः प्रचण्डं जनादेशं च प्राप्नोति। येषु राज्येषु अद्य भारतीयजनतापक्षस्य सर्वकारः नास्ति, तत्रापि जनाः अधुना कमलं विकसितुं पूर्णतया सज्जाः सन्ति।

------------

Hindusthan Samachar / Dheeraj Maithani