समदृष्टिविद्यालयस्य उद्देश्यं शिक्षार्थी केवलं पुस्तकीय ज्ञानं यावत् सीमितो न स्यात् : सज्जनगुरूजिः
मुरादाबादम्, 11 अगस्तमासः (हि.स.)। सतयुगदर्शनट्रस्टस्य मार्गदर्शकः सज्जनगुरुः मङ्गलवासरे रामगङ्गाविहारस्थे सतयुगदर्शनसत्सङ्गसभागृहे आगतवान्। तेन समितेः उपवेशनं सत्सङ्गं च सम्बोधितम्। उपवेशने सूचितं यत् मुरादाबादनगरे नवीनः सार्थकश्च प्रयासरूपेण ‘
सतयुग दर्शन सत्संग हॉल बैठक को संबोधित करते सज्जन गुरुजी।


मुरादाबादम्, 11 अगस्तमासः (हि.स.)।

सतयुगदर्शनट्रस्टस्य मार्गदर्शकः सज्जनगुरुः मङ्गलवासरे रामगङ्गाविहारस्थे सतयुगदर्शनसत्सङ्गसभागृहे आगतवान्। तेन समितेः उपवेशनं सत्सङ्गं च सम्बोधितम्।

उपवेशने सूचितं यत् मुरादाबादनगरे नवीनः सार्थकश्च प्रयासरूपेण ‘सम्भावसमदृष्टिविद्यालयस्य’ शुभारम्भः आगामीदिसम्बरमासस्य विंशतितमे दिने रामगङ्गाविहारे मुरादाबादनगरे भविष्यति।

सज्जनगुरुणा उक्तं यत् सम्भावसमदृष्टिविद्यालयस्य उद्देशः शिक्षार्थिनः केवलं पुस्तकीयज्ञानपर्यन्तं सीमितान् न कृत्वा तेषां समग्रव्यक्तित्वविकासाय, सृजनात्मकचिन्तनाय, नैतिकमूल्यानां विकासाय, आत्मविश्वासवर्धनाय, जीवनकौशलस्य विकासाय तथा आध्यात्मिकज्ञानस्य संवर्धनाय प्रेरणादायकं संवेदनशीलं च शैक्षिकवातावरणं प्रदातुम् अस्ति।

सतयुगदर्शनट्रस्टेन अस्य विद्यालयस्य परिकल्पना तादृशीरूपेण कृता अस्ति, यत्र सर्वेभ्यः जनभ्यः आधुनिकशिक्षया सह संस्काराणां, मानवीयमूल्यानां भारतीयसंस्कृतेश्च समन्वयः प्रदास्यते। एताः अस्य विद्यालयस्य प्रमुखविशेषताः सन्ति। विद्यालयस्य शुभारम्भः दिसम्बरमासे भव्यरूपेण भविष्यति। अस्मिन् शिक्षाक्षेत्रे सामाजिकक्षेत्रे च सम्बद्धाः गणमान्याः अतिथयः, शिक्षाविदः, अभिभावकाः तथा नगरस्य प्रतिष्ठितनागरिकाः उपस्थिताः भविष्यन्ति।

अस्मिन् अवसरे विद्यालयस्य शैक्षणिकदृष्टेः, उद्देश्यानां भावियोजनानां च विषये सर्वेभ्यः सूचनां प्रदास्यते। सम्भावसमदृष्टिविद्यालयस्य शुभारम्भः क्षेत्रे गुणवत्तापूर्णायाः मूल्याधारितायाश्च शिक्षायाः दिशि महत्त्वपूर्णं पदक्षेपं मन्यते। सतयुगदर्शनट्रस्टस्य प्रबन्धनस्य विश्वासः अस्ति यत् अयं संस्थानः विद्यार्थिनः ज्ञानवन्तः, संस्कारवन्तः, आत्मनिर्भराः उत्तरदायिनश्च नागरिकान् निर्मातुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

अतः अस्य लाभं प्राप्तुं सर्वे इच्छुकाः स्वीयं पञ्जीकरणं कर्तुं शक्नुवन्ति। कस्यापि प्रकारस्य सूचनायै ९३६८२९६२३० इति दूरभाषसङ्ख्यायां रामगङ्गाविहारप्रथमस्थे डी१० सत्सङ्गसभागृहे सम्पर्कं कर्तुं शक्नुवन्ति।

अस्मिन् अवसरे भारतीयजनतापक्षस्य महानगराध्यक्षः गिरीशभण्डूलः अपि तत्र आगत्य सज्जनगुरोः आशीर्वादं प्राप्तवान्। कार्यक्रमे ट्रस्टस्य सदस्याः राजकुमारआहूजा, हरीशसिक्का, सचिनसोनी इत्यादयः उपस्थिताः आसन्।

----------------

Hindusthan Samachar / Dheeraj Maithani