Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 11 अगस्तमासः (हि.स.)।स्थानीयस्य सैनिकविद्यालयस्य गणपतिरायसलारपुरियासरस्वतीविद्यामन्दिरस्य भागलपुरे मङ्गलवासरे विद्यालयस्तरीयस्य विज्ञानमेलकस्य आयोजनं कृतम्।
कार्यक्रमस्य शुभारम्भः विद्यालयस्य सचिवेन डॉ. चन्द्रभूषणसिंहेन, प्रधानाचार्येण अमरेशकुमारेण उपप्रधानाचार्येण अभिनन्दनसिंहेन च संयुक्तरूपेण दीपप्रज्वालनं नारिकेलभेदनं च कृत्वा कृतः।
अस्मिन् विज्ञानमेलके छात्रैः स्वप्रतिभां प्रदर्शयद्भिः विज्ञानस्य, सङ्गणकस्य गणितस्य च विषयेषु कुलं नवतिः आकर्षकप्रतिरूपाणि निर्मितानि। प्रतियोगितायां बालवर्गस्य, किशोरवर्गस्य तरुणवर्गस्य च छात्राः पूर्णोत्साहेन सहभागितां कृतवन्तः।
मेलके छात्रैः नवाचारस्य अन्तर्गतं संवेदकानां, घर्षणस्य, मानवहृदयस्य कार्यप्रणाल्याः, परमाणुसंरचनायाः गतिनियमानां च आधारेण प्रतिरूपाणि प्रस्तुतानि। गणितविषये सर्वसमिकायाः, बहुभुजस्य नवाचारस्य च आधारेण निर्मितानि प्रतिरूपाणि आकर्षणस्य केन्द्राणि अभवन्। अपरत्र सङ्गणकक्षेत्रे बालवैज्ञानिकैः कृत्रिमबुद्धिमत्तायाः, सूचनासञ्चारप्रौद्योगिक्याः, नवोद्यमस्य तथा साइबरसुरक्षायाः इत्यादीनां आधुनिकानां संवेदनशीलानां च विषयाणाम् आधारेण उत्कृष्टानि प्रतिरूपाणि निर्मितानि तथा स्वकीयां प्राविधिकदक्षतां प्रदर्शिता।
निर्णायकानां अन्तिमनिर्णयानुसारं विज्ञानविषये किशोरवर्गे अनुभवलुमारेण प्रथमस्थानं प्राप्तम्। परमाणुसंरचनायाः प्रतिरूपे बिन्दुसाररोली प्रथमस्थाने आसीत् तथा मानवहृदयस्य प्रतिरूपे सृष्टिकुमार्या प्रथमस्थानं प्राप्तम्। अस्मिन्नेव वर्गे मुस्कानेनापि प्रथमस्थानं प्राप्तम्।
विद्यालयस्य प्रधानाचार्येण उक्तं यत् विद्यालयस्तरे प्रथमस्थानं प्राप्तवन्तः सर्वेषु विषयेषु सर्वेषु वर्गेषु च सफलाः छात्राः अधुना आगामीविभागीयविज्ञानमेलके अर्थात् प्रान्तीयविज्ञानमेलके विद्यालयस्य प्रतिनिधित्वं करिष्यन्ति तथा तत्र सहभागितां करिष्यन्ति।
अस्मिन् गरिमामये अवसरे चन्द्रचूडः कुमारः, शान्तनुआनन्दः, महेशकुमारः, विज्ञानप्रमुखः सिद्धार्थकुमारसिंहः, उपप्रधानाचार्यः अभिनन्दनकुमारः, सुगन्धाकुमारी, प्रभाझा, विनोदकुमारपाण्डेयः, मीडियाप्रभारी दीपककुमारझा इत्यादयः विद्यालयस्य सर्वे आचार्यबन्धवः भगिन्यश्च उपस्थिताः आसन्। सर्वैः बालवैज्ञानिकानां अस्य प्रयासस्य भूरि भूरि प्रशंसा कृता।
---------------
Hindusthan Samachar / Dheeraj Maithani