Enter your Email Address to subscribe to our newsletters



सारणम्, 11 अगस्तमासः (हि.स.)।
जनपदस्य प्रसिद्धः सामाजिकः साहित्यिकः राष्ट्रवादी च चिन्तकः तथा राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठः स्वयंसेवकः पं. शम्भुकमलाकरमिश्रः सोमवासरस्य रात्रौ दिवङ्गतः। सः साहित्यिकानां, सामाजिकानां, सांस्कृतिकानां शैक्षिकानां च संस्थानां मार्गदर्शकः तथा सेवानिवृत्तः शिक्षकश्च आसीत्। तस्य पुत्रेण रजनीशसुधाकरेण उक्तं यत् सः सोमवासरे रात्रौ अन्तिमश्वासं त्यक्तवान्।
तस्य निधनस्य वार्ता प्राप्तमात्रे छपरा-नगरस्य मौनाबानगञ्जस्थिते तस्य आवासे अन्तिमदर्शनाय जनानां समूहः समागतः। विभिन्नैः सामाजिकैः, साहित्यिकैः राष्ट्रवादीभिश्च संस्थाभिः सम्बद्धैः जनैः तस्य पार्थिवशरीरे श्रद्धासुमनः समर्पिताः। तत्पश्चात् सारणजनपदस्य रिविलगञ्जस्थे सेमरियाघाटे तस्य अन्त्येष्टिसंस्कारः सम्पन्नः, यत्र तस्य ज्येष्ठपुत्रेण डॉ. विनायकपद्माकरेण मुखाग्निः प्रदत्ता तथा सः पञ्चतत्त्वेषु विलीनः अभवत्।
अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसङ्घस्य, विश्वहिन्दूपरिषदः, बजरङ्गदलस्य, संस्कारभारत्याः, विद्याभारत्याः, भारतीयजनतापक्षस्य तथा सङ्घपरिवारस्य विभिन्नघटकानां स्वयंसेवकाः पदाधिकारिणश्च, शिक्षकसङ्घस्य प्रतिनिधयः तथा शतशः गणमान्यजनाः उपस्थिताः आसन्। सर्वेभिः तस्मै अश्रुपूर्णा अन्तिमविदाई प्रदत्ता तथा ईश्वरात् तस्य आत्मनः शान्त्यै प्रार्थना कृता। जनैः तस्य निधनं बौद्धिकस्य वैचारिकस्य च जगतः कृते अपूरणीयक्षतिरूपेण वर्णितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani