Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, ११ अगस्तमासः (हि.स.)। बिहारस्य मुख्यमन्त्री सम्राट-चौधरी मङ्गलवासरे शहीददिवसस्य अवसरे पटनानगरे स्थिते शहीदस्मारकपरिसरे अमरस्वातन्त्र्यसेनानिभ्यः श्रद्धाञ्जलिम् अर्पितवान्। अस्मिन् अवसरे आयोजिते राजकीयसमारोहे सः बलिदानिनां प्रतिमासु माल्यार्पणं कृत्वा तेषां बलिदानं नत्वा श्रद्धां प्रकटितवान्।
शहीददिवसस्य अवसरे १९४२ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के देशस्य स्वातन्त्र्यार्थं स्वप्राणानाम् आहुतिं दत्तवतः सप्त अमरबलिदानिनाम्—उमाकान्त-प्रसाद-सिंहस्य, रामानन्द-सिंहस्य, सतीश-प्रसाद-झायाः, जगत्पति-कुमारस्य, देवीपद-चौधरिणः, राजेन्द्र-सिंहस्य तथा रामगोविन्द-सिंहस्य—बलिदानं स्मृतम्।
राजकीयसमारोहः पटनानगरे स्थिते शहीदस्मारकपरिसरे आयोजितः। मुख्य-मन्त्रिणा बलिदानिनां प्रतिमासु माल्यार्पणं कृत्वा तेभ्यः श्रद्धाञ्जलिः अर्पिता तथा स्वातन्त्र्यसंग्रामस्य वीरसेनानिनां योगदानं प्रति श्रद्धा प्रकटिता।
अस्मिन् अवसरे उपमुख्यमन्त्री बिजेन्द्र-प्रसाद-यादवः, बिहारविधानपरिषदः सभापतिः अवधेश-नारायण-सिंहः, बिहार-विधानसभायाः उपाध्यक्षः नरेन्द्र-नारायण-यादवः, भवननिर्माणमन्त्री लेशी-सिंहः, खाद्य-उपभोक्तृसंरक्षणमन्त्री अशोक-चौधरी, विज्ञान-प्रावैधिक-तकनीकी-शिक्षामन्त्री शीला-कुमारी, सहकारिता-मन्त्री रामकृपाल-यादवः, विधायकः श्याम-रजकः सहिताः अनेकाः मन्त्रिणः, विधायकाः, जनप्रतिनिधयः गणमान्य-जनाश्च उपस्थिताः आसन्।
तदनन्तरं सर्वैः बिहारविधानमण्डलपरिसरे स्थिते शहीदप्रांगणे अमरज्योतेः समक्षं पुष्पचक्राणि अर्पितानि तथा स्वातन्त्र्य-संग्रामस्य सर्वेभ्यः अमरबलिदानिभ्यः श्रद्धाञ्जलिः प्रदत्ता। अस्मिन् क्रमे बलिदानिनां बलिदानं स्मृत्वा देशस्य स्वातन्त्र्यार्थं तेषां योगदानं संघर्षं च नत्वा श्रद्धा प्रकटिता।
Hindusthan Samachar / Divya Ranjan