भारतीयतिरंगं देशस्य एकता, अखंडता, त्याग वीरता इत्येषां प्रतीकः राजेश ‘चुन्नूः’
मुरादाबादम्, 11 अगस्तमासः (हि.स.)।देशस्य एकोनाशीतितमे स्वातन्त्र्यदिवसस्य उपलक्ष्ये ‘हर घर तिरंगा अभियान’ इत्यस्य अन्तर्गतं भारतीयजनतापक्षस्य मुरादाबादजनपदस्य छजलैटमण्डलेन मङ्गलवासरे भव्यतिरङ्गयात्रायाः आयोजनं कृतम्। यात्रायाः शुभारम्भः शहीदजयकुमार
भाजपा मुरादाबाद जिला इकाई के छजलैट मंडल में निकलती तिरंगा यात्रा।


मुरादाबादम्, 11 अगस्तमासः (हि.स.)।देशस्य एकोनाशीतितमे स्वातन्त्र्यदिवसस्य उपलक्ष्ये ‘हर घर तिरंगा अभियान’ इत्यस्य अन्तर्गतं भारतीयजनतापक्षस्य मुरादाबादजनपदस्य छजलैटमण्डलेन मङ्गलवासरे भव्यतिरङ्गयात्रायाः आयोजनं कृतम्। यात्रायाः शुभारम्भः शहीदजयकुमारसिंहस्मारकात् अभवत् तथा च समापनं प्राथमिकविद्यालये कुड़ी रवाना ग्रामे अभवत्।

तिरङ्गयात्रायां मुख्यातिथिरूपेण कांठविधानसभाक्षेत्रस्य पूर्वविधायकः राजेशकुमारसिंहः ‘चुन्नू’ इत्यनेन उक्तं यत् तिरङ्गः देशस्य आनस्य, बानस्य, शानस्य च प्रतीकः अस्ति। अयं केवलं ध्वजः न, अपितु देशस्य एकतायाः, अखण्डतायाः, त्यागस्य वीरतायाश्च प्रतीकः अस्ति।

अस्यां यात्रायां बहुसंख्याकाः भारतीयजनतापक्षस्य पदाधिकारिणः कार्यकर्तारश्च क्षेत्रवासिनश्च हस्तेषु राष्ट्रध्वजं गृहीत्वा सम्मिलिताः। ‘भारत माता की जय’, ‘वन्दे मातरम्’ इति राष्ट्रभक्तिपूर्णैः घोषैः सम्पूर्णं क्षेत्रं राष्ट्रभक्तेः भावनया रञ्जितम्। कार्यकर्तारः जनान् स्वेषु गृहेषु तिरङ्गध्वजं आरोपयितुं तथा स्वातन्त्र्यदिवसं गौरवेण उत्साहेन च आचरितुं सन्देशं दत्तवन्तः।

कार्यक्रमस्य अध्यक्षता मण्डलाध्यक्षा आञ्चलचौधर्या कृता। सा सर्वेषां पदाधिकारिणां कार्यकर्तॄणां क्षेत्रवासिनां च आभारं व्यक्तवती। तया उक्तं यत् छजलैटमण्डलस्य कार्यकर्तारः येन उत्साहेन तिरङ्गयात्रायां भागं गृहीतवन्तः, तत् क्षेत्रे राष्ट्रभक्तेः भावनां स्पष्टतया प्रदर्शयति।

Hindusthan Samachar / Dheeraj Maithani