Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, 11 अगस्तमासः (हि.स.)।
श्रावणमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ श्रावणशिवरात्र्यां मङ्गलवासरे गोरक्षपीठाधीश्वरः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गोरखनाथक्षेत्रे स्थिते प्राचीनमानसरोवरमन्दिरे रुद्राभिषेकं कृत्वा भगवान् भोलेनाथं प्रति प्रदेशवासिनां सुखसमृद्ध्यर्थं प्रार्थनां कृतवान्। गोरखपुरप्रवासस्य अवधौ मुख्यमन्त्रिणा मङ्गलवासरे निरन्तरं द्वितीयदिने रुद्राभिषेकः कृतः। मानसरोवरमन्दिरात् पूर्वं तेन सोमवासरे गोरखनाथमन्दिरस्य शक्तिपीठे रुद्राभिषेकः कृतः आसीत्।
प्राचीनमानसरोवरमन्दिरे मुख्यमन्त्रिणा योगी आदित्यनाथेन देवाधिदेवाय महादेवाय बिल्वपत्राणि, कमलपुष्पाणि, दूर्वाः तथा विविधाः पूजासामग्र्यः समर्पिताः। ततः मधुना, दध्ना, शर्करया, गोदुग्धेन जलेन च महादेवस्य अभिषेकः कृतः। गोरखनाथमन्दिरस्य विद्वद्भिः पुरोहितैः शुक्लयजुर्वेदसंहितायाः रुद्राष्टाध्याय्याः महामन्त्रैः रुद्राभिषेकः कारितः।
रुद्राभिषेकानन्तरं मुख्यमन्त्रिणा वैदिकमन्त्राणां घोषस्य मध्ये हवनं तथा आरतीं कृत्वा अनुष्ठानं सम्पूर्णं कृतम्। तेन देवाधिदेवात् महादेवात् चराचरजगतः कल्याणाय तथा प्रदेशवासिनां निरामयस्य सुखमयस्य समृद्धिमयस्य शान्तिमयस्य च जीवनस्य मङ्गलकामना कृता।
Hindusthan Samachar / Dheeraj Maithani