जीडीसी-महानपुरे वृक्षारोपणं वन्दे मातरमिति सामूहिकगानं च
महानपुरम्, ११ अगस्तमासः (हि.स.)। ‘हर घर तिरंगा’ तथा ‘वन्दे मातरम्’ अभियानस्य अन्तर्गतं राजकीय-महाविद्यालये महानपुरे वृक्षारोपणा-भियानस्य ‘वन्दे मातरम्’ इत्यस्य सामूहिकगानस्य च आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यं छात्रेषु देशभक्तेः, पर्यावरणसंरक्षण
Tree plantation and collective singing of 'Vande Mataram' at GDC Mahanpur.


महानपुरम्, ११ अगस्तमासः (हि.स.)। ‘हर घर तिरंगा’ तथा ‘वन्दे मातरम्’ अभियानस्य अन्तर्गतं राजकीय-महाविद्यालये महानपुरे वृक्षारोपणा-भियानस्य ‘वन्दे मातरम्’ इत्यस्य सामूहिकगानस्य च आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यं छात्रेषु देशभक्तेः, पर्यावरणसंरक्षणस्य सामाजिक-दायित्वस्य च भावनायाः संवर्धनम् आसीत्।

प्राचार्यायाः प्रो. (डॉ.) सङ्गीता-सूदन इत्यस्या: मार्गदर्शने आयोजिते कार्यक्रमे छात्रैः, शिक्षकैः कर्मचारिभिश्च उत्साहपूर्वकं भागः गृहीतः। महाविद्यालयपरिसरे विभिन्नेषु स्थानेषु पादपाः रोपिताः तथा पर्यावरणसंरक्षणस्य सन्देशः प्रदत्तः। ततः देशभक्तिभावनया ‘वन्दे मातरम्’ इत्यस्य सामूहिकगानं कृतम्।

कार्यक्रमस्य आयोजके प्रो. बिन्ती-शर्मा तथा डॉ. सपना-देवी इत्येताभ्यां सह डॉ. हिलाल-अहमदः, मङ्गल-रामः, किशोरी-लालः, रोमेश-लालः, सुरिन्दर-कुमारः, कुलदीपः तथा अनु-राधा च उपस्थिताः आसन्। प्राचार्यया सर्वेषां प्रतिभागिनां प्रयासानां प्रशंसा कृता तथा देशभक्त्या, एकतया पर्यावरणसंरक्षणेन च सम्बद्धेषु कार्यक्रमेषु सक्रियभागग्रहणस्य आह्वानं कृतम्।

हिन्दुस्थान समाचार / Divya Ranjan