Enter your Email Address to subscribe to our newsletters

-सर्वकारस्य संकल्पः,प्रत्येकं नागरिकस्य जीवने स्यात् सुगमता : योगी आदित्यनाथः
गोरखपुरम्, 11 अगस्तमासः (हि.स.)।
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् विकासकार्याणां श्रृङ्खलया अधुना परिवर्तमानं गोरखपुरं दृश्यते। अत्र प्रत्येकः मार्गः चतुर्मार्गीयमार्गेण सम्बध्यते। बृहद्प्रमाणेन उपरिसेतवः उपरिमार्गसेतवश्च निर्मीयन्ते। निरन्तरं जायमानेषु विकासकार्येषु तेन आगतेन जीवनस्य सौकर्येन च गोरखपुरस्य नूतना परिचितिः जाता अस्ति। सर्वकारस्य सङ्कल्पः अस्ति यत् प्रत्येकस्य नागरिकस्य जीवने सौकर्यं भवेत्।
मुख्यमन्त्री योगी मङ्गलवासरे पूर्वाह्णे गोरखपुरसोनौलीमार्गात् ग्रीनसिटीमार्गेण माधोपुरबन्धपर्यन्तं मार्गस्य विस्तारीकरणस्य सुदृढीकरणस्य च कार्यस्य लोकार्पणं कृत्वा जनसभां सम्बोधयन् एतद् उक्तवान्। नेताजी सुभाषचन्द्रनगरस्थे मलशोधनसंयन्त्रस्य समीपे स्थिते मैदाने आयोजिते समारोहः मुख्यमन्त्री अवदत् यत् अस्मिन् क्षेत्रे बहुकालात् जनाः निवसन्ति स्म। अत्र बहवः विद्यालयाः अपि निर्मिताः सन्ति। किन्तु मार्गस्य सङ्कीर्णत्वात् जनानां गमनागमने महती कठिनता भवति स्म। गुरुवाहनानि अपि अत्र आगन्तुं न शक्नुवन्ति स्म। प्रायः सप्ततिकोटिरूप्यकाणां व्ययेन प्रायः द्विकिलोमीटरपरिमितदीर्घतायाः अस्य मार्गस्य निर्माणेन अनेकानां समस्याणां समाधानं जातम्। अनेन जनानां गमनागमनं सुगमं जातम्। सहैव जलप्लावनस्य समस्याऽपि समाप्ता अभवत्। सः अवदत् यत् एषः मार्गः गमनागमनं सुगमं कर्तुं श्रेष्ठः उपायः अस्ति।
वाराणसीं लखनऊं वा नेपालं गन्तुं नगरस्य अन्तर्भागे गन्तव्यं न भविष्यति
मुख्यमन्त्री ग्रीनसिटीतः माधोपुरबन्धपर्यन्तं नवनिर्मितस्य मार्गस्य महत्त्वं वर्णयन् अवदत् यत् अस्य मार्गस्य सम्पर्कसुविधया अधुना वाराणसीं लखनऊं नेपालं सिद्धार्थनगरं महाराजगञ्जं बलरामपुरम् इत्यादिस्थलानि गन्तुकामानां जनानां नगरस्य अन्तर्भागे गन्तुं आवश्यकता न भविष्यति। सः अवदत् यत् राजघाटमार्गेण हाबर्टबन्धतः माधोपुरतटबन्धपर्यन्तं मार्गः चतुर्मार्गीयः क्रियते। डोमिनगढे उपरिसेतुरपि निर्मास्यते। जनाः अत्रतः डोमिनगढस्य चतुर्मार्गीयं परिभ्रमणमार्गं गृहीत्वा कालेसरं गत्वा लखनऊमार्गं प्राप्स्यन्ति। तथैव नेपालं सोनौलीं वा गन्तुं महेसरामार्गेण गमनस्य सुविधा भविष्यति। मुख्यमन्त्री अवदत् यत् गोरखपुरस्य जनानां कृते सर्वकारस्य पक्षतः बहवः सुविधाः प्रदीयन्ते।
मार्गलोकार्पणसमारोहे मुख्यमन्त्री योगी आदित्यनाथः सर्वेभ्यः नागरिकेभ्यः सावनशिवरात्रेः शुभकामनाः प्रदत्तवान्। सहैव देवाधिदेवस्य भगवान् भोलेनाथस्य समीपे सर्वेषां नागरिकानां सुखसमृद्ध्यर्थं प्रार्थनां कृतवान्।
समारोहे प्रदेशसर्वकारस्य मन्त्रिमण्डले कैबिनेटमन्त्री डॉ. सञ्जयनिषादः, सांसदः रविकिशनशुक्लः, महापौरः डॉ. मङ्गलेशश्रीवास्तवः, भारतीयजनतापक्षस्य प्रदेशोपाध्यक्षः विधानपरिषद्सदस्यश्च डॉ. धर्मेन्द्रसिंहः, विधायकः फतेहबहादुरसिंहः, श्रीरामचौहानः, विपिनसिंहः, महेन्द्रपालसिंहः, प्रदीपशुक्लः, सरवननिषादः, राज्य महिला आयोगस्य उपाध्यक्षा चारुचौधरी, भारतीयजनतापक्षस्य जिलाध्यक्षः जनार्दनतिवारी, महानगराध्यक्षः रमेशप्रतापगुप्तः, पूर्वमहानगराध्यक्षः राजेशगुप्तः, कालीबाडीमठस्य महन्तः रविन्द्रदासः इत्यादयः प्रमुखतया उपस्थिताः आसन्।
वैदिकमन्त्रघोषस्य मध्ये योगिना सूत्रं छित्त्वा मार्गस्य लोकार्पणं कृतम्
जनसभां सम्बोधयितुं पूर्वं मुख्यमन्त्री योगी आदित्यनाथः गोरखपुरसोनौलीराजमार्गस्य ग्रीनसिटीवक्रस्थले नवनिर्मितस्य मार्गस्य प्रारम्भिकस्थले वैदिकमन्त्रघोषस्य मध्ये सूत्रं छित्त्वा मार्गस्य लोकार्पणं कृतवान्। अस्मिन् अवसरे सः लोकार्पणशिलापट्टस्य अनावरणमपि कृतवान्। लोकार्पणानन्तरं सः अनेनैव मार्गेण गच्छन् मार्गनिर्माणकार्यस्य निरीक्षणं कृत्वा जनसभास्थलं प्राप्तवान्।
स्थानीयनागरिकैः मुख्यमन्त्रिणः भव्यं स्वागतं कृतम्
ग्रीनसिटीतः माधोपुरबन्धपर्यन्तं विस्तृतस्य सुदृढस्य च मार्गस्य उपहारं प्राप्य हृष्टाः स्थानीयनागरिकाः लोकार्पणसमारोहे मुख्यमन्त्रिणः योगी आदित्यनाथस्य भव्यं स्वागतं कृतवन्तः। मार्गस्य लोकार्पणं कृत्वा जनसभास्थलं प्रति गच्छतः मुख्यमन्त्रिणः प्रायः द्वादशसु स्थानेषु जनैः जयघोषं कृत्वा पुष्पवर्षणेन च अभिनन्दनं कृतम् तथा विकासस्य अस्य उपहारस्य कृते कृतज्ञता प्रकटिता। मुख्यमन्त्रिणः स्वागताय द्वौ गजावपि अलङ्कृत्य मार्गस्य पार्श्वे स्थापिता आस्ताम्।
सुगमगमनागमनेन सह जलनिर्गमनस्यापि व्यवस्था कृता
१.८ किलोमीटरपरिमितदीर्घतायां प्रायः सप्ततिकोटिरूप्यकाणां व्ययेन नवनिर्मितः अयं मार्गः राष्ट्रियमार्गात् २४ अर्थात् सोनौलीनौतनवांगोरखपुरमार्गात् निर्गत्य ग्रीनसिटीं पटनियाग्रामं च अतिक्रम्य माधोपुरबन्धपर्यन्तं गच्छति। मार्गनिर्माणस्य अस्याः परियोजनायाः माध्यमेन ग्रीनसिटीक्षेत्रस्य अस्मिन् मार्गेण सम्बद्धानां च अन्यासां बहूनां आवासीयवसतीनां जनानां कृते सुगमगमनागमनस्य सुविधा प्राप्ता अस्ति। सहैव मार्गस्य उभयतः नालीनिर्माणेन जलनिर्गमनस्य समुचितव्यवस्थाऽपि जाता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani