वाराणस्यां विधायकः सौरभ श्रीवास्तवः कांवड़ सेवा शिविरस्य कृतवान् शुभारम्भम्
वाराणसी, 11 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे कैण्ट्-विधानसभाक्षेत्रस्य विधायकः सौरभश्रीवास्तवः मङ्गलवासरे महामूरगञ्जस्थे कांवडसेवाशिबिरस्य शुभारम्भं कृतवान्। विधायकः सौरभश्रीवास्तवः शिबिरम् आगतेभ्यः कांवडधारिभ्यः मिष्टान्नस्य वितरण
कावरिया शिविर का विधायक ने किया उद्घाटन


वाराणसी, 11 अगस्तमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणसीजनपदे कैण्ट्-विधानसभाक्षेत्रस्य विधायकः सौरभश्रीवास्तवः मङ्गलवासरे महामूरगञ्जस्थे कांवडसेवाशिबिरस्य शुभारम्भं कृतवान्। विधायकः सौरभश्रीवास्तवः शिबिरम् आगतेभ्यः कांवडधारिभ्यः मिष्टान्नस्य वितरणं कृतवान् तथा तेषां पादयोः धूलिं स्वयमेव मार्जितवान्।

विधायकः सौरभश्रीवास्तवः अवदत् यत् भगवान् भोलेनाथस्य भक्तानां सेवा अस्माकं सर्वेषां कृते सौभाग्यस्य पुण्यस्य च अवसरः अस्ति। बाबा विश्वनाथस्य कृपया सर्वेषां कांवडबन्धूनां यात्रा मङ्गलमयी सुखदा निर्विघ्ना च भवतु, इति एव मम कामना अस्ति। वाराणसीम् आगच्छद्भ्यः सर्वेभ्यः श्रद्धालुभ्यः कांवडधारिभ्यश्च शिबिरे आवश्यकाः सुविधाः प्रदास्यन्ते। शिबिरस्य प्रबन्धसमितेः सदस्यैः सह अस्मिन् विषये वार्ता कृता अस्ति। सः स्वयमपि समये समये शिबिरम् आगत्य व्यवस्थायाः विषये सूचनां प्राप्स्यति।

अस्मिन् अवसरे कांवडशिबिरस्य सदस्यैः सह सेवाकार्यं कुर्वन्तः सेवकाः भारतीयजनतापक्षस्य कार्यकर्तारश्च उपस्थिताः आसन्। विधायकः सौरभः शिबिरस्य सञ्चालकेभ्यः सर्वप्रकारस्य सम्भावितसहायतां प्रदातुं स्वस्य पूर्णसहयोगस्य आश्वासनमपि दत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani