Enter your Email Address to subscribe to our newsletters

वाराणसी,11 अगस्तमासः (हि.स.)। श्रावणमासस्य शिवरात्रेः पावनावसरे मङ्गलवासरे उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां दशाश्वमेधघाटे नमामिगङ्गासङ्घटनेन उपस्थितेभ्यः श्रद्धालुभ्यः राष्ट्रभक्तेः, सेवायाः, स्वच्छतायाः पर्यावरणसंरक्षणस्य च सङ्कल्पः कारितः।
कार्यक्रमस्य संयोजकस्य गङ्गासेवकस्य राजेशशुक्लस्य नेतृत्वे राष्ट्रध्वजं धृत्वा ‘हरघरतिरङ्गा अभियानस्य’ अन्तर्गतं गङ्गामातुः आरतीः कृता। जनान् आहूतं यत् श्रावणमासं सेवा, स्वच्छता, जलसंरक्षणम्, पर्यावरणसंवर्धनं सामाजिकसहभागिता च इत्येतैः कार्यैः परिपूर्णं मासं कर्तुं सङ्कल्पं गृह्णन्तु। प्रत्येकस्य जलकणस्य सम्मानं प्रत्येकस्य वृक्षस्य संरक्षणं च कुर्वन्तु। प्रकृतेः यावद् गृह्णन्ति तावदेव तस्यै प्रत्यर्पयितुं सङ्कल्पं कुर्वन्तु। एष एव श्रावणमासस्य वास्तविकः सन्देशः, समृद्धस्य सुरक्षितस्य विकसितस्य च भारतस्य आधारशिला च अस्ति।
श्रावणमासस्य शिवरात्रेः अवसरे गङ्गास्नानाय गङ्गाजलं कांवडपात्रे पूरयितुं समागतानां सहस्रशः श्रद्धालूनां प्रति गङ्गासेवकः राजेशशुक्लः सन्देशं दत्तवान् यत् देवाधिदेवः महादेवः स्वयं प्रकृतिबोधस्य देवता अस्ति। तस्य जटासु प्रवहन्ती गङ्गा, मस्तके सुशोभितः चन्द्रमा, कण्ठे स्थितः सर्पः, नन्दी च तस्य गणाश्च अस्मभ्यं प्रकृत्या सह सहअस्तित्वस्य सन्देशं ददति। सनातनसंस्कृतौ प्रकृतेः एतदेव नवोन्मेषस्वरूपं शिव-आराधनया सह सम्बध्य जीवनं संयमस्य, सेवायाः, समरसतायाश्च मार्गं दर्शयति। आयोजने कांवडधारिभिः अपि पूर्णोत्साहेन सहभागिता कृता।
-------------
Hindusthan Samachar / Dheeraj Maithani