Enter your Email Address to subscribe to our newsletters

लखनऊ, 11 अगस्तमासः (हि.स.)।योगीसर्वकारेण विगतेषु सार्धनववर्षेषु प्रदेशे सुशासनस्य जनसमस्यानां च शीघ्रसमाधानस्य दिशि क्रियमाणानां प्रयत्नानां प्रभावः धरातले स्पष्टतया दृश्यते। मुख्यमन्त्रिणः डैशबोर्ड इत्यस्य जुलाईमासस्य क्रमाङ्कने पुनरपि रामपुरजनपदेन सम्पूर्णे प्रदेशे प्रथमस्थानं प्राप्तम्। शाहजहाँपुरजनपदेन द्वितीयं बरेलीजनपदेन च तृतीयं स्थानं प्राप्तम्। रामपुरस्य, शाहजहाँपुरस्य बरेलीस्य च जिलाधिकारिभिः कथितं यत् जनशिकायतीनां प्रभाविनः निस्तारणेन, उत्तमप्रतिक्रियां प्राप्त्वा तथा प्रशासनिककार्यप्रणाल्यां सुधारात्मकपदक्षेपैः एषा उपलब्धिः प्राप्ता अस्ति।
रामपुरेण दशसु ९.५८ अङ्कान् प्राप्य प्रथमस्थानं प्राप्तम्
रामपुरस्य जिलाधिकारी अजयकुमारद्विवेदी उक्तवान् यत् मुख्यमन्त्रिणः डैशबोर्डस्य माध्यमेन जनपदानां मूल्याङ्कनं विभिन्नमानदण्डानाम् आधारेण क्रियते। तेषु जनशिकायतीनां समयबद्धं निस्तारणम्, प्राप्तशिकायतीषु कृता कार्यवाही, प्रतिक्रियायाः गुणवत्ता तथा योजनानां कार्यान्वयनम् इत्यादयः पक्षाः सम्मिलिताः सन्ति। तेन उक्तं यत् जुलाईमासे मुख्यमन्त्रिणः डैशबोर्डस्य माध्यमेन जनपदस्य ५९ योजनानां निरीक्षणं कृतम्। तासु ५६ कार्यक्रमेषु जनपदेन ‘ए’ श्रेणी प्राप्ता।
जनपदेन वैकल्पिकऊर्जाक्षेत्रे, ऊर्जाविभागे, कृषिविभागे, समाजकल्याणविभागे, पञ्चायतीराजविभागे, लोकनिर्माणविभागे, नियोजनविभागे, ग्राम्यविभागे, चिकित्सास्वास्थ्यविभागे, पशुपालनविभागे, आधारभूतशिक्षाक्षेत्रे, माध्यमिकशिक्षाक्षेत्रे, मत्स्यविभागे, उद्योगविभागे, सहकारिताक्षेत्रे तथा सिञ्चनविभागस्य कार्यक्रमेषु शतप्रतिशतं लक्ष्यम् अधिगत्य ‘ए’ श्रेणी प्राप्ता अस्ति।
मुख्यमन्त्रिणः डैशबोर्डस्य जुलाईमासस्य क्रमाङ्कने रामपुरजनपदेन दशसु ९.५८ अङ्काः प्राप्ताः। एतेन पुनरपि रामपुरजनपदेन मुख्यमन्त्रिणः डैशबोर्डस्य क्रमाङ्कने सम्पूर्णे प्रदेशे प्रथमस्थानं प्राप्तम्। तदतिरिक्तं रामपुरजनपदं विगतेभ्यः अनेकमासेभ्यः मुख्यमन्त्रिणः डैशबोर्डस्य क्रमाङ्कने शीर्षदशसु जनपदेषु निरन्तरं स्थानं धारयति।
शाहजहाँपुरेण ९.४३ अङ्कान् प्राप्य द्वितीयस्थानं प्राप्तम्
शाहजहाँपुरस्य जिलाधिकारी धर्मेन्द्रप्रतापसिंहेन उक्तं यत् शाहजहाँपुरे विकासकार्याणि गुणवत्तापूर्वकं समयबद्धरीत्या च पूर्णानि क्रियन्ते। तेन सह मुख्यमन्त्रिणः डैशबोर्डस्य माध्यमेन प्राप्तानां शिकायतानां गुणवत्तापूर्वकं शीघ्रं निस्तारणमपि क्रियते। तेन उक्तं यत् मुख्यमन्त्रिणः डैशबोर्डस्य जुलाईमासस्य क्रमाङ्कने शाहजहाँपुरजनपदेन दशसु ९.४३ अङ्काः प्राप्ताः। एतेन शाहजहाँपुरेण सम्पूर्णे प्रदेशे द्वितीयस्थानं प्राप्तम्। अपरत्र बरेलीजनपदेन ९.४० अङ्कान् प्राप्य प्रदेशे तृतीयस्थानं प्राप्तम्।
शीर्षदशजनपदेषु अम्बेडकरनगरं मैनपुरी आजमगढं च स्थानं प्राप्तवन्तः
मुख्यमन्त्रिणः डैशबोर्ड इत्यस्य जुलाईमासस्य क्रमाङ्कने बहुभिः जनपदैः उत्तमं प्रदर्शनं कृत्वा शीर्षदशसु स्थानं प्राप्तम्। तत्र अम्बेडकरनगरजनपदेन ९.३४ अङ्कान् प्राप्य चतुर्थस्थानं, मैनपुरीजनपदेन ९.३० अङ्कान् प्राप्य पञ्चमस्थानं च प्राप्तम्। तथैव आजमगढजनपदेन ९.२७ अङ्कान् प्राप्य षष्ठस्थानं, महाराजगञ्जजनपदेन ९.२५ अङ्कान् प्राप्य सप्तमस्थानं च प्राप्तम्।
बुलन्दशहरजनपदेन बागपतजनपदेन च समानरूपेण ९.२३ अङ्कान् प्राप्य अष्टमस्थानं प्राप्तम्। लखीमपुरखीरीजनपदेन ९.२० अङ्कान् तथा सुल्तानपुरजनपदेन सोनभद्रजनपदेन च समानरूपेण ९.१८ अङ्कान् प्राप्य शीर्षदशजनपदेषु स्थानं प्राप्तम्।
Hindusthan Samachar / Dheeraj Maithani