राजगस्य ‘मङ्गल-मिलन’-सभायां प्रधानमन्त्री मोदी प्रदर्शितवान् राष्ट्रध्वजम्
नवदिल्ली, ११ अगस्तमासः (हि.स.)। राष्ट्रीय-जनतान्त्रिक-संयुतिः इत्यस्य संसदीय-दलस्य साप्ताहिक्यां ‘मङ्गल-मिलन’-सभायां मङ्गलवासरे प्रधानमन्त्री नरेन्द्र-मोदी, केन्द्रीय-गृहमन्त्री अमित-शाहः इत्यादयः राजगस्य अनेके सांसदाः वरिष्ठनेतारश्च सम्मिलिताः। सभ
राजग की बैठक में तिरंगा लहराते हुए प्रधानमंत्री मोदी


नवदिल्ली, ११ अगस्तमासः (हि.स.)। राष्ट्रीय-जनतान्त्रिक-संयुतिः इत्यस्य संसदीय-दलस्य साप्ताहिक्यां ‘मङ्गल-मिलन’-सभायां मङ्गलवासरे प्रधानमन्त्री नरेन्द्र-मोदी, केन्द्रीय-गृहमन्त्री अमित-शाहः इत्यादयः राजगस्य अनेके सांसदाः वरिष्ठनेतारश्च सम्मिलिताः। सभायाः समये प्रधानमन्त्री मोदी, गृहमन्त्री शाहः तथा राजगस्य अन्ये नेतारः राष्ट्रध्वजं प्रदर्शितवन्तः।

सभायाः प्रारम्भः ‘वन्दे मातरम्’ इति घोषैः अभवत्। विपक्षः निरन्तरं गृहमन्त्रिणः अमित-शाहस्य सदने उपस्थितेः तथा विभिन्नेषु विषयेषु चर्चायाः याचनां करोति। अस्य प्रत्युत्तररूपेण राजगस्य पक्षतः विपक्षस्य विरुद्धं राजनीतिक-प्रत्युत्तरस्य सज्जता कृता अस्ति। सभायाः अनन्तरं निर्गच्छन्तः राजगस्य नेतारः हस्तेषु विज्ञापनानि गृहीत्वा सन्देशं प्रदर्शितवन्तः, यस्मिन् लिखितम् आसीत्— “गृहमन्त्री चर्चायै सिद्धः अस्ति, विपक्षः पलायते।”

Hindusthan Samachar / Divya Ranjan