कांवड़मेलापकस्य सफलतायै डीएम-एसएसपि इत्येताभ्यां गङ्गापूजनं कृतम्, दक्षेश्वरमहादेवे जलाभिषेकश्च
हरिद्वारम्, ११ अगस्तमासः (हि.स.)। कांवड़मेलापकस्य सफलस्य शान्तिपूर्णस्य च आयोजनस्य अनन्तरं जनपदाधिकारी मयूर-दीक्षितः तथा एसएसपी नवनीत-सिंह-भुल्लरः हरकी-पैडीं गत्वा पूजार्चनां कृतवन्तौ। ततः उभौ अधिकारिणौ कनखलस्थिते दक्षेश्वरमहादेवमन्दिरे भगवत: शिवस्
दक्षेश्वर महादेव मंदिर में जलाभिषेक करते हुए


गंगा पूजन करते हुए


हरिद्वारम्, ११ अगस्तमासः (हि.स.)। कांवड़मेलापकस्य सफलस्य शान्तिपूर्णस्य च आयोजनस्य अनन्तरं जनपदाधिकारी मयूर-दीक्षितः तथा एसएसपी नवनीत-सिंह-भुल्लरः हरकी-पैडीं गत्वा पूजार्चनां कृतवन्तौ। ततः उभौ अधिकारिणौ कनखलस्थिते दक्षेश्वरमहादेवमन्दिरे भगवत: शिवस्य जलाभिषेकं कृत्वा प्रदेशस्य सुखसमृद्धेः कामनां कृतवन्तौ।

अस्मिन् अवसरे एसएसपी नवनीत-सिंह-भुल्लरेण उक्तं यत् कांवड़मेलापकस्य समाप्तेः अद्यापि कतिपया: हौरा: शेषा: सन्ति, अतः आरक्षक-प्रशासनतन्त्रं पूर्णतया सतर्कम् अस्ति। तेन उक्तं यत् अस्मिन् वर्षे कांवड़यात्रिणां संख्या चतुरशीतिलक्षाधिकचतुःकोटिपर्यन्तं प्राप्नुयात्।

एसएसपी उक्तवान् यत् एतावत्यां विशालायां कांवड़यात्रिणां संख्यायाम् अपि मेलापकस्य सुव्यवस्थितं सुरक्षितं च सञ्चालनं सर्वेषां सहयोगस्य उत्तमरणनीतेः च परिणामः अस्ति। आरक्षकप्रशासनयोः, विभिन्नविभागानां, स्वयंसेवकानां स्थानीयजनानां च यत् समन्वितं दायित्व-निर्वहणं कृतम्, तस्यैव परिणामरूपेण मेलापक: अद्यावधि शान्ति-पूर्णतया सम्पन्नः अभवत्।

सः अवदत् यत् अन्तिमक्षणपर्यन्तं सुरक्षाव्यवस्थायां कापि शिथिलता न भविष्यति। आरक्षक-प्रशासनयोः दलानि मेलाक्षेत्रे निरन्तरं निरीक्षणं कुर्वन्ति। जनपदाधिकारी अपि कांवड़मेलापकस्य कर्तव्ये नियुक्तानाम् अधिकारिणां कर्मचारिणां च तथा सहयोगं कृतवतां सर्वान् जनान् प्रति कृतज्ञतां प्रकटितवान्। अधिकारिभ्यां भगवन्तं शिवं प्रति प्रदेशस्य हरिद्वारस्य च सुखशान्त्यर्थं प्रार्थना कृता।

Hindusthan Samachar / Divya Ranjan