उज्जैनम्- हरियाल्याम् अमावस्यायामद्य दुध तलईक्षेत्रे समायोज्यते मेलापकः
उज्जैनम्, 12 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां नगरे अद्य हरियाली अमावस्यायाः अवसरे प्रतिवर्षमिव दुध तलई इति स्थले इन्दौर द्वारक्षेत्रे मेलायोजनं भविष्यति। अत्र स्थिते अतीव प्राचीन दुधेश्वरमहादेवमन्दिरे भगवान् दुधेश्वरमहादेवस्य विशेषपूजनं
A fair will be held at Dudh Talai on Wednesday on the occasion of Hariyali Amavasya.


उज्जैनम्, 12 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां नगरे अद्य हरियाली अमावस्यायाः अवसरे प्रतिवर्षमिव दुध तलई इति स्थले इन्दौर द्वारक्षेत्रे मेलायोजनं भविष्यति। अत्र स्थिते अतीव प्राचीन दुधेश्वरमहादेवमन्दिरे भगवान् दुधेश्वरमहादेवस्य विशेषपूजनं मनोहरशृङ्गारश्च करिष्यते। रात्रौ अष्टवादने महाआरती भविष्यति। एतद्वत् नगरे अन्येऽपि विविधाः कार्यक्रमाः सम्पन्नाः भविष्यन्ति।

मन्दिरस्य व्यवस्थापकः पूजकश्च पण्डितः कृष्णकान्तजोशी तथा मुरलीमनोहरजोशी च अवदताम् यत् मन्दिरक्षेत्रे स्थितस्य कूपस्य जलस्य विशेषं महत्त्वम् अस्ति। एतादृशी लोकमान्यता अस्ति यत् शिशोः जन्मानन्तरं यासां मातॄणां स्तन्यं न स्रवति, ताः यदि अस्य कूपस्य जलेन स्नानं कृत्वा तज्जलं पिबन्ति, तर्हि तासां स्तन्यस्रावः प्रारभते। अस्यामेव श्रद्धायां विश्वासे च आधृत्य दूरदूरप्रदेशेभ्यः श्रद्धालवः मातरः अत्र आगत्य कूपजलस्य सेवनं कुर्वन्ति।

पूर्वं मन्दिरस्य पूजनकार्यं संरक्षणव्यवस्थां च स्वर्गीयेन भूतनाथयोगिना स्वर्गीयेन जगन्नाथजोशिना च सम्भालिता आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani