Enter your Email Address to subscribe to our newsletters

अयोध्या, 12 अगस्तमासः (हि.स.)। उत्तरप्रदेशराज्यस्य महिलाआयोगस्य अध्यक्षा डाॅ. बबितासिंहचौहानः बुधवासरे अयोध्यां प्राप्तवती तथा सर्किटहाउसे स्वसहायता समूहस्य महिलाभिः सह संवादं कृतवती। सा महिलानां स्थितेः, समस्यायाः, रोजगारस्य च विषये सूचनां प्राप्तवती। ततः पूर्णबाजारविकासखण्डे आयोजितायां तिरङ्गयात्रायाम् अपि सहभागितां कृतवती।
बबितासिंहचौहानः रामनगरीम् आगत्य श्रीरामजन्मभूमिमन्दिरे रामललायाः तथा हनुमानगढ्यां हनुमल्ललायाः दर्शनपूजनं कृतवती। सा अवदत् यत् महिलानां स्थितिः निरन्तरं सुधरति।
स्वसहायतासमूहेभ्यः महिलाः प्रतिमासं पञ्चविंशतितः त्रिंशत्सहस्ररूप्यकाणि यावत् अर्जयन्ति। महिलाः परिवारस्य आर्थिकस्थितिं सुदृढां कुर्वन्त्यः पतिनां रोजगारकार्येष्वपि सहयोगं कुर्वन्ति।
सर्वकारस्य योजनानां लाभं स्वीकृत्य महिलाः आत्मनिर्भराः भवितुं शक्नुवन्ति। जागरूकाः महिलाः एतस्य लाभं गृह्णन्ति। पुलिसस्य भूमिकायाः विषये सा अवदत् यत् परिवेदनायाः अनन्तरं अन्वेषणे समयः भवति। सप्तवर्षेभ्यः न्यूनदण्डयुक्तेषु केषुचित् प्रकरणेषु तत्कालं ग्रहणं न भवति, तथापि पुलिसविभागः उत्तमरीत्या कार्यं कुर्वन् अस्ति।
Hindusthan Samachar / Dheeraj Maithani