स्वातन्त्र्यदिवसे राष्ट्रपतिभवने गुञ्जायमानः भविष्यति छत्तीसगढस्य ‘गुट्टा-मादर’-वाद्यस्य नादः
धमतरी, १२ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे अगस्तमासस्य १५ दिनाङ्के राष्ट्रपतिभवने आयोजिते समारोहे छत्तीसगढस्य समृद्धा जनजातीय-लोकसंस्कृतिः राष्ट्रीयमञ्चे स्वकीयं विशिष्टं परिचयं स्थापयिष्यति। धमतरी-मण्डलस्य नगरी-विकासखण्डस्य सरईटोला ग्र
नृत्य करते हुए सरईटोला के कलाकार।


समूह में खड़े हुए सरईटोला के कलाकार।


धमतरी, १२ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे अगस्तमासस्य १५ दिनाङ्के राष्ट्रपतिभवने आयोजिते समारोहे छत्तीसगढस्य समृद्धा जनजातीय-लोकसंस्कृतिः राष्ट्रीयमञ्चे स्वकीयं विशिष्टं परिचयं स्थापयिष्यति। धमतरी-मण्डलस्य नगरी-विकासखण्डस्य सरईटोला ग्रामस्य ‘जय गढिया बाबा आदिवासी लोक मांदरी नृत्यदलम्’ राष्ट्रपतिभवने पारम्परिकस्य ‘गुट्टा-मांदर’ नृत्यस्य प्रस्तुतिं करिष्यति।

ग्रामीणक्षेत्रस्य कलाकाराणां देशस्य प्रतिष्ठिते राष्ट्रीयमञ्चे स्वकलाप्रदर्शनस्य अवसरः प्राप्तः इति न केवलं धमतरी-मण्डलस्य, अपितु सम्पूर्णस्य छत्तीसगढस्य कृते गौरवस्य विषयः अस्ति। सरईटोलायाः एतत् लोकनृत्यदलम् स्वकीयया विशिष्टया ‘गढवा’ नृत्यशैल्या, ‘गुट्टा-मांदर’ वाद्यस्य ऊर्जस्विन्या तालध्वनिना, पारम्परिकवेषभूषया लोकवाद्यैश्च प्रसिद्धम् अस्ति। अस्य प्रस्तुतिषु छत्तीसगढस्य जनजातीयसमाजस्य लोकजीवनस्य, परम्पराणाम्, उत्सवानां सामुदायिक-संस्कृतेश्च जीवन्तं दर्शनं भवति।

मांदरस्य तालध्वनिः, पारम्परिकानि गीतानि सामूहिकं नृत्यं च अस्याः लोककलायाः विशिष्टं परिचयं जनयन्ति। विविधवर्णयुक्ता पारम्परिकछत्तीसगढी-वेषभूषा, आभरणानि अलङ्काराश्च प्रस्तुत्याः सांस्कृतिकगौरवं वर्धयन्ति। एतत् लोकनृत्यं केवलं मनोरञ्जनस्य साधनं नास्ति, अपितु लोकजीवनस्य, सामुदायि-कैकतायाः, वंशेभ्यः परम्परया प्रचलितानां संस्काराणां च संवाहकम् अस्ति। धान्यादीनां सस्यानां कटनोत्सवे, उत्सवेषु, मेलापकेषु विविधेषु सामाजिक-सांस्कृतिकेषु अवसरेषु च अस्य आयोजनं भवति।

दलस्य सचिवः रूपराय नेतामः अवदत् यत् नागपुरस्य सांस्कृतिकभवनेन दलस्य उत्कृष्टप्रस्तुतीनां पारम्परिककलायाः च विशिष्टतां दृष्ट्वा स्वातन्त्र्यदिवस-समारोहस्य कृते राष्ट्रपतिभवने प्रस्तुत्यर्थं दलस्य चयनं कृतम्। सः अवदत् यत् देशस्य सर्वोच्चे संवैधानिकसंस्थाने छत्तीसगढस्य लोक-कलायाः प्रस्तुतिकरणं दलस्य कृते अत्यन्तं गौरवपूर्णः अवसरः अस्ति। सर्वे कलाकाराः अस्मिन् प्रतिष्ठिते मञ्चे श्रेष्ठां प्रस्तुतिं दातुम् उत्साहिताः सन्ति।

राष्ट्रपतिभवने प्रस्तुत्यर्थं सरईटोलाग्रामस्य रतनलाल-निषादः, सुरेन्द्रसोरी, हेमन्त-सोरी, सुलोचनासोरी मधुनेतामश्च नवदेहलीं प्रति प्रस्थास्यन्ति। ग्रामीणक्षेत्रात् निर्गत्य राष्ट्रीयस्य राजधानीनगरस्य प्रतिष्ठितं मञ्चं प्राप्तवन्तः एते कलाकाराः छत्तीसगढस्य लोककलायाः जनजातीय-संस्कृतेश्च मौलिकतां जीवन्ततां च प्रदर्शयन्ति।

सङ्ग्राहकेण कलाकाराः शुभकामनाःउल्लेखनीयं यत् अगस्तमासस्य चतुर्थे दिनाङ्के जनदर्शनस्य समये गढियाबाबा-आदिवासी-लोकनृत्यसेवासमित्याः सरईटोला इत्यस्य पदाधिकारिणः सदस्याश्च सङ्ग्राहकेण अबिनाशमिश्रेण सह सौजन्यसाक्षात्कारं कृतवन्तः। तस्मिन् समये तेभ्यः ज्ञापितं यत् तेषां दलं १५ अगस्त २०२६ दिनाङ्के नवदिल्ली इत्यत्र आयोजिते स्वातन्त्र्यदिवसस्य मुख्य-समारोहे धमतरी-मण्डलस्य समृद्धां जनजातीयलोकसंस्कृतिं प्रतिनिधित्वं कुर्वत् लोकनृत्यस्य प्रस्तुतिं करिष्यति।

सङ्ग्राहकः अबिनाशमिश्रः सम्पूर्णं दलं प्रति अभिनन्दनानि शुभकामनाश्च अर्पयन् अवदत् यत् राष्ट्रीयमञ्चे मण्डलस्य लोकपरम्पराणां सांस्कृतिकवैभवस्य जनजातीयकलायाश्च प्रदर्शनं सम्पूर्णस्य धमतरी-मण्डलस्य कृते गौरवस्य सम्मानस्य च विषयः अस्ति। सः अवदत् यत् एषा उपलब्धिः मण्डलस्य सांस्कृतिक-परिचयं नूतनानि उच्चशिखराणि प्रापयिष्यति तथा च युवावंशं स्वकीयाभिः लोकपरम्पराभिः सह सम्बद्धां भवितुं प्रेरयिष्यति। राष्ट्रपतिभवने गुञ्जमानः मांदरस्य नादः धमतरीभूमेः सांस्कृतिक-परिचयं राष्ट्रियपटलं प्रति नूतनां प्रतिष्ठां प्रापयिष्यति।

Hindusthan Samachar / Divya Ranjan