Enter your Email Address to subscribe to our newsletters

रायपुरम्, १२ अगस्तमासः (हि.स.)। छत्तीसगढस्य समृद्धायाः लोक-जनजातीय-सांस्कृतिकपरम्परायाः १५ अगस्त २०२६ दिनाङ्के राष्ट्रपतिभवने आयोज्यमाने स्वातन्त्र्यदिवसस्य स्वागत-समारोहे ‘एट् होम’ इत्यस्मिन् विशेषं स्थानं भविष्यति। भारतस्य स्वातन्त्र्यस्य अष्टाशीतितमवर्षपूर्त्यवसरे आयोज्यमाने अस्मिन् समारोहे छत्तीसगढस्य, गोवायाः, मध्यप्रदेशस्य, महाराष्ट्रस्य च जीवन्ताभिः लोक-पारम्परिककलापरम्पराभिः संस्कृतिमध्ये समुदायस्य प्रकृतेश्च प्रगाढः सम्बन्धः रेखाङ्कितः भविष्यति।
छत्तीसगढ-सर्वकारस्य अनुसारं समारोहे राज्यस्य पक्षतः गेण्डी तथा गौर-माडिया नृत्ये प्रमुखाकर्षणे भविष्यतः। हरेली-पर्वणा सम्बद्धं गेण्डीनृत्यं उच्चासु वंशगेण्डीषु कलाकाराणां सन्तुलनं चपलतां कौशलं च प्रदर्शयति। एतत् छत्तीसगढस्य बस्तरप्रदेशे विशेषतः मुडिया-गोण्ड-जनजातीय-समुदाययोः पारम्परिकलोकसंस्कृत्या सम्बद्धम् अस्ति तथा वर्षर्तोः प्रारम्भे हरेली-तिहारस्य अवसरे प्रस्तुतं भवति।
अपरतः बस्तरस्य माडियासमुदायेन सम्बद्धं गौर-माडियानृत्यं पारम्परिक-वेषभूषया विशिष्टेन शिरो-भूषणेण च जनजातीयजीवनं, वीरतां प्रकृत्या सह समुदायस्य प्रगाढं सम्बन्धं च अभिव्यञ्जयति।
समारोहे छत्तीसगढस्य, गोवायाः, मध्यप्रदेशस्य महाराष्ट्रस्य च प्रायः पञ्चत्रिंशत् कलाकाराः विविधेषु लोक-नृत्येषु पारम्परिकसङ्गीतप्रस्तुतिषु च भागं ग्रहीष्यन्ति। कार्यक्रमे लावणी, तुतारी, सोंगी-मुखावटे, गेण्डी, गौर-माडिया, भगोरिया, बैगा-करमा, सामई, घोड़े-मोडनी इत्यादयः लोकप्रयोगाः सम्मिलिताः भविष्यन्ति।
सम्पूर्णा सङ्गीतप्रस्तुतिः भारतस्य विविधलोकपरम्पराणां सांस्कृतिक-यात्रारूपेण सज्जिता अस्ति। अस्याः प्रारम्भः छत्तीसगढस्य बस्तर-प्रदेशस्य च पारम्परिकानुष्ठानिक-परम्पराधारितया मङ्गलधुन्या भविष्यति। ततः महाराष्ट्रस्य, गोवायाः, मध्यप्रदेशस्य च सङ्गीतपरम्पराः प्रस्तुताः भविष्यन्ति। कार्यक्रमस्य अन्तिमे चरणे चतुर्णां राज्यानां कलाकाराः संयुक्तां प्रस्तुतिं करिष्यन्ति।
सङ्गीतप्रस्तुतेः संयोजनं छत्तीसगढस्य लोकगायकः सङ्गीतकारः लेखकः रङ्गकर्मी च राकेशकुमारतिवारी इत्यनेन कृतम् अस्ति। सङ्गीतनाटक-अकादमी-पुरस्कारेण सम्मानितः तिवारी छत्तीसगढीलोकसङ्गीतस्य संरक्षण-संवर्धनयोः कृते प्रसिद्धः अस्ति।
अस्यां प्रस्तुतौ छत्तीसगढस्य बालोद-मण्डलस्य नारायणपुर-मण्डलस्य च कलाकाराः अपि भागं ग्रहीष्यन्ति। बालोदस्य कलाकाराः मोहरी, दफडा, दमाऊ, गुडुम, वंशुरी इत्यादीनां पारम्परिकवाद्यानां वादनं प्रस्तोष्यन्ति। नारायणपुरस्य कलाकाराः तु गुटा परई, नार परई, ढोल, कुन्दिर इत्यादीनां वाद्यानां माध्यमेन बस्तरस्य पारम्परिकसङ्गीत-परम्परां राष्ट्रीयमञ्चे प्रस्तोष्यन्ति।
राष्ट्रपतिभवने आयोज्यमाने सांस्कृतिक-प्रदर्शने छत्तीसगढस्य परम्परा केवलं सङ्गीत-नृत्ययोः पर्यन्तं सीमिता न भविष्यति। राज्यस्य पारम्परिकशिल्प-वस्त्रपरम्पराभ्यामपि अस्मिन् विशेषं महत्त्वं प्रदास्यते।
ढोकरा तथा बस्तरस्य पारम्परिकलौह-शिल्पस्य माध्यमेन राज्यस्य समृद्धहस्त-शिल्पपरम्परा प्रदर्शिता भविष्यति। अपरतः चतुर्णां राज्याना विशिष्टाः वस्त्रपरम्पराः अपि संयुक्तप्रस्तुतेः अङ्गं भविष्यन्ति। तत्र छत्तीसगढस्य पनिका-वयनम्, महा-राष्ट्रस्य करवत-काठी-शाटिका, गोवायाः कुंभी-शाटिका, मध्यप्रदेशस्य महेश्वरी-वयनम् इत्येतानि प्रदर्शितानि भविष्यन्ति।
अस्य वर्षस्य सांस्कृतिकप्रस्तुतेः प्रमुखः सन्देशः सांस्कृतिकपरम्परायाः पर्यावरण-संरक्षणस्य च सम्बन्धे केन्द्रितः अस्ति। छत्तीसगढस्य सन्दर्भे बस्तरस्य पारम्परिकजीवनशैल्या, शिल्पपरम्परया पवित्रोपवनानां संरक्षणपरम्परया च समुदायस्य प्रकृतेश्च सह-अस्तित्वं रेखाङ्कितं भविष्यति।
राष्ट्रपतिभवनस्य स्वातन्त्र्यदिवसस्य स्वागतसमारोहे छत्तीसगढस्य लोक-जन-जातीयकला, बस्तरस्य सङ्गीतपरम्परा, पारम्परिकवाद्यानि, हस्तशिल्पं पनिका-वयनपरम्परा च राष्ट्रीयमञ्चं प्राप्स्यन्ति। अस्याः प्रस्तुत्याः माध्यमेन छत्तीसगढस्य सांस्कृतिकविविधता, मौलिकता, प्रकृति-सम्बद्धा जीवनशैली च देशस्य समक्षं प्रभावशालिरूपेण प्रस्तुता भविष्यति।
Hindusthan Samachar / Divya Ranjan