Enter your Email Address to subscribe to our newsletters

इतिहासस्य पृष्ठेषु १३ अगस्तमासस्य दिनं भारतीयविमानन-उद्योगस्य कृते अत्यन्तं महत्त्वपूर्णम् अस्ति। १९५१ तमे वर्षे अस्मिन्नेव दिने देशे निर्मितेन प्रथमेन स्वदेशीविमानेन ‘हिन्दुस्तान ट्रेनर-२’ (एच.टी.-२) इत्यनेन प्रथमवारम् आकाशे उड्डयनं कृतम्। स्वातन्त्र्यप्राप्तेः केवलं चतुर्षु वर्षेषु प्राप्ता एषा उपलब्धिः भारतस्य प्रौद्योगिकक्षमतायाः आत्मनिर्भरतायाः च दिशि महत्त्वपूर्णं सोपानम् अमन्यत।
द्वयासनयुक्तं प्रशिक्षणविमानम् इदं हिन्दुस्तान एयरोनॉटिक्स लिमिटेड् इत्यनेन विकसितम् आसीत्। तस्मिन् काले भारतदेशः विमाननिर्माणक्षेत्रे प्रारम्भिके चरणे एव आसीत् तथा आधुनिकप्रौद्योगिक्याः संसाधनानां च सीमाः आसन्। एतादृशे समये स्वदेशीय-अभिकल्पनया अभियान्त्रिककौशलेन च विमानस्य निर्माणं भारतीयवैज्ञानिकानां अभियन्तॄणां च कृते महती समस्या आसीत्।
एच.टी.-२ इत्यस्य प्रथमोड्डयनेन एषा समस्या सफलतायां परिणता। ततः १९५३ तमे वर्षे भारतीयवायुसेनायै नौसेनायै च अस्य विमानस्य उत्पादनम् आरब्धम्। मुख्यतया वैमानिकानां प्रशिक्षणाय प्रयुज्यमानम् इदं विमानं देशस्य सैन्यविमाननव्यवस्थां सुदृढां कर्तुं महत्त्वपूर्णं योगदानम् अकरोत्।
हिन्दुस्तान ट्रेनर-२ इत्यस्य उपयोगः केवलं रक्षाक्षेत्रे एव सीमितः न आसीत्। देशस्य विभिन्नेषु विमाननकेन्द्रेषु उड्डयन-प्रशिक्षणसंस्थासु च प्रशिक्षुवैमानिकानां उड्डयनप्रशिक्षणाय अपि अस्य उपयोगः कृतः। एवं एच.टी.-२ इत्यनेन सैन्य-प्रशिक्षणेन सह नागरिकविमाननस्य विकासेऽपि महत्त्वपूर्णा भूमिका निर्व्यूढा।
१९५१ तमस्य वर्षस्य एतत् प्रथमोड्डयनं भारतस्य विमानन-इतिहासे तस्य अध्यायस्य प्रारम्भः आसीत्, येन अग्रे स्वदेशीयविमाननिर्माणस्य सम्भावनाः सुदृढाः अभवन्। अद्य भारतदेशः यया तीव्रगतिना एरोस्पेस्-विमाननक्षेत्रयोः प्रगतिं कुर्वन् अस्ति, तस्याः प्रारम्भिकासु उपलब्धिषु हिन्दुस्तान ट्रेनर-२ इत्यस्य नाम महत्त्वपूर्णं स्थानं धारयति।
महत्त्वपूर्णघटनाचक्रम्
१५९८ - फ्रान्सदेशस्य शासकेन हेनरी चतुर्थेन नान्त्-नगरस्य प्रसिद्धः आदेशः प्रकाशितः। अनेन आदेशेन प्रोटेस्टेन्ट-ईसाईजनानां पूर्णा धार्मिकस्वतन्त्रता प्रदत्ता।१६४२ - डच्-खगोलशास्त्रज्ञेन क्रिश्चियन् ह्यूगेन्स् इत्यनेन मङ्गलग्रहस्य दक्षिणध्रुवस्य शिखरस्य अन्वेषणं कृतम्।१६४५ - स्वीडन्-डेनमार्कदेशयोः मध्ये शान्तिसन्धौ हस्ताक्षराणि कृतानि।१७८४ - भारते प्रशासनिकसुधाराणां कृते पिट्स् इण्डिया-विधेयकं ब्रिटिशसंसदि प्रस्तुतम्।१८१४ - दासव्यापारस्य समाप्त्यर्थं ब्रिटेन-हॉलैण्डयोः मध्ये सन्धिः अभवत्।१८९२ - अमेरिकादेशस्य ‘एफ्रो-अमेरिकन’ इति समाचारपत्रस्य बाल्टीमोरनगरात् प्रकाशनम् आरब्धम्।१८९८ - जॉर्ज डेवी इत्यस्य नेतृत्वे अमेरिकीयसैन्येन फिलिपीन्सदेशस्य राजधानी मनीला अधिगता।१९०२ - इंग्लैण्डेन ऑस्ट्रेलियादेशः एकेन क्रीडकविकेटेन पराजितः तथा ओवल्-प्राङ्गणे प्रसिद्धः विजयः प्राप्तः।१९०५ - नार्वेदेशवासिभिः स्वीडेनदेशेन सह विद्यमानस्य संघस्य समाप्त्यर्थं मतदानं कृतम्।१९१३ - शेफील्ड्-नगरस्य इंग्लैण्डदेशीयेन हैरी ब्रेअरली इत्यनेन स्टेनलेस-स्टील् इत्यस्य आविष्कारः कृतः।१९५१ - भारते निर्मितेन प्रथमेन विमाननेन हिन्दुस्तान ट्रेनर-२ इत्यनेन प्रथमवारं उड्डयनं कृतम्।१९५६ - राष्ट्रीय-राजमार्गसम्बद्धं विधेयकं लोकसभायां पारितम्।१९६० - अफ्रीकादेशः फ्रान्सदेशस्य आधिपत्यात् स्वतन्त्रः अभवत्।१९७७ - अन्तरिक्षयानस्य प्रथम-ग्लाइड्-उड्डयनस्य परीक्षणं कृतम्।१९९३ - वाशिंग्टननगरे इजरायल-फिलिस्तीनयोः मध्ये शान्तिसन्धिः सम्पन्ना।१९९३ - थाईलैण्डस्य नाखोन रचासिमा-नगरे होटलभवनस्य पतनेन ११४ जनाः मृताः।१९९४ - संयुक्तराज्य-अमेरिकायाः उत्तरकोरियादेशस्य च मध्ये जेनेवानगरे परमाणुनिरस्त्रीकरणसम्बद्धा ऐतिहासिकी सहमतिः अभवत्।१९९९ - लेखिका तस्लीमा नसरीनस्य नूतनग्रन्थः ‘आमार मेइबेला’ इत्यस्य प्रकाशने बाङ्ग्लादेश-सर्वकारेण प्रतिबन्धः आरोपितः। स्टेफी ग्राफ् इत्यनया टेनिस्-क्रीडातः संन्यासः स्वीकृतः।२००० - रोनाल्ड वेनेशियनः सूरीनामदेशस्य नूतनः राष्ट्रपतिः नियुक्तः।२००२ - इन्टरपोल्-संस्थया नेपालस्य अष्ट माओवादी-आतङ्कवादिनां अन्वेषणाय ‘रेड् कॉर्नर्’ सूचनापत्रं प्रकाशितम्।२००४ - यूनानीसभ्यतायाः प्रदर्शनेन सह ओलम्पिक-क्रीडाः प्रारब्धाः।२००४ - ग्रीसदेशस्य एथेन्स्नगरे अष्टाविंशतितमाः ओलम्पिक-क्रीडाः प्रारब्धाः।२००५ - श्रीलङ्कादेशस्य विदेशमन्त्री लक्ष्मण कादिरगमरस्य हत्या अभवत्, ततः आपत्कालः घोषितः।२००८ - विश्वस्य प्रमुखया इस्पात-कम्पन्या टाटा स्टील् इत्यनया वियतनामदेशे संयुक्तरूपेण इस्पातपरिसरस्य निर्माणाय तत्रत्याभ्यां प्रमुखाभ्यां निर्माणीभ्यां सह सन्धिः कृता।२००८ - भारतने मल्टी-बैरल रॉकेट लॉन्चर शस्त्रप्रणाल्याः ‘पिनाक’ इत्यस्य सफलं परीक्षणं कृतम्।२००८ - प्रसिद्धः अर्थशास्त्रज्ञः भारतीय-रिजर्व-धनागारस्य पूर्वगवर्नरः च चक्रवर्ती सङ्गराजन् राज्यसभायै नामितः।२०१५ - इराकदेशस्य बगदादनगरे ट्रकयाने कृतस्य बमविस्फोटस्य कारणेन ७६ जनाः मृताः, २१२ च जनाः आहताः।
जन्म
१८४८ - रमेशचन्द्रदत्तः - आङ्ग्लभाषायां बाङ्ग्लाभाषायां च प्रसिद्धः लेखकः, धनबहिर्गमन-सिद्धान्तस्य प्रवर्तकः महान् शिक्षाशास्त्री च आसीत्।१८६३ - गङ्गाप्रसादवर्मा - प्रसिद्धः राजनीतिज्ञः।१८८७ - नरेन्द्रमोहनसेनः - भारतस्य प्रसिद्धः क्रान्तिकारी।१९३३ - मधुरजाफरी - भारतीयाभिनेत्री, पाककला-यात्रालेखिका दूरदर्शनस्य च प्रसिद्धा व्यक्तित्वम्।१९३६ - वैजयन्तीमाला - भारतीयचलचित्रस्य प्रसिद्धा अभिनेत्री।१९५२ - योगिताबाली - हिन्दीचलचित्रजगतः प्रसिद्धासु अभिनेत्रीसु अन्यतमा।१९६१ - सुनीलशेट्टी - भारतीयः अभिनेता निर्माता च।१९६३ - श्रीदेवी - भारतीयचलचित्रस्य ख्यातिप्राप्तासु अभिनेत्रीषु अन्यतमा आसीत्।१९७९ - काम्यापञ्जाबी - अभिनेत्री।१९८४ - उषानेगिसेटी - भारतीयमहिला-मुष्टियोद्धा।२००० - सात्विकसाईराजरङ्कीरेड्डी - भारतीयबैडमिण्टनक्रीडकः, येन राष्ट्रमण्डलक्रीडा-२०२२ मध्ये चिरागशेट्टिना सह पुरुषयुगलस्पर्धायां सुवर्णपदकं विजितम्।
निधनम्
१७९५ - अहिल्याबाई होल्कर - भारतस्य वीराङ्गनासु अन्यतमा।१९१० - फ्लोरेन्स नाइटिङ्गेल - आधुनिक-नर्सिङ्-आन्दोलनस्य जननी, प्रसिद्धा परिचारिका च आसीत्।१९३६ - भीकाजी कामा - प्रसिद्धा भारतीयमहिला-क्रान्तिकारिणी।२००३ - भबेन्द्रनाथसैकिया - भारतीयः उपन्यासकारः, लघुकथालेखकः चलचित्रनिर्देशकश्च आसीत्।२०१६ - प्रमुखस्वामीमहाराजः - हिन्दू आध्यात्मिकनेता।२०१८ - सोमनाथचटर्जी - प्रसिद्धः राजनीतिज्ञः भारतीयकम्युनिस्टपक्षस्य च प्रमुखनेतृषु अन्यतमः आसीत्।
महत्त्वपूर्णाः अवसराः• अङ्गदानदिवसः।• अन्ताराष्ट्रियवामपन्थीदिवसः।
Hindusthan Samachar / Divya Ranjan