नीट पेपर लीक-प्रकरणे सीबीआई इत्यस्य प्राथमिक्यां फास्ट ट्रैकन्यायालयः अगृह्णात् संज्ञानम्
नव दिल्ली, 12 अगस्तमासः (हि.स.)। पेपर लीक प्रकरणस्य श्रवणगोचरतां कुर्वतः दिल्लीस्थस्य राऊज एवेन्यू न्यायालयस्य द्रुतविचारणन्यायालयेन केन्द्रीयान्वेषणसंस्थया प्रस्तुतस्य आरोपपत्रस्य संज्ञानं स्वीकृतम्। विशेषन्यायाधीशः अजयगुप्तः आरोपपत्रस्य संज्ञ
राऊज एवेन्यू कोर्ट (फाइल फोटो)


नव दिल्ली, 12 अगस्तमासः (हि.स.)।

पेपर लीक प्रकरणस्य श्रवणगोचरतां कुर्वतः दिल्लीस्थस्य राऊज एवेन्यू न्यायालयस्य द्रुतविचारणन्यायालयेन केन्द्रीयान्वेषणसंस्थया प्रस्तुतस्य आरोपपत्रस्य संज्ञानं स्वीकृतम्। विशेषन्यायाधीशः अजयगुप्तः आरोपपत्रस्य संज्ञानं स्वीकृतवान्। न्यायालयेन अस्मिन् प्रकरणे त्रयोदशानाम् आरोपितानां विरुद्धं प्रस्तुतस्य आरोपपत्रस्य संज्ञानं स्वीकृतम्। सीबीआईद्वारा त्रयोदश जनाः आरोपिताः कृताः सन्ति।

सीबीआईद्वारा ये जनाः आरोपिताः कृताः सन्ति, तेषु यश यादवः, मांगीलाल बिवालः, दिनेश बिवालः, विकास बिवालः, शुभम खैरनारः, धनंजय लोखंडे, प्रह्लाद कुलकर्णी, तेजस हर्षद कुमारः, डाॅ. मनोज शिरुरे, शिवराज रघुनाथ मोटेगांवकरः, मनीषा वाघमारे, मनीषा मंधारे तथा मनीषा संजय हवलदारः सम्मिलिताः सन्ति। एते सर्वे आरोपिताः सम्प्रति न्यायिकबन्धने सन्ति।

सीबीआईद्वारा आरोपितानां विरुद्धं भारतीयन्यायसंहितायाः धारा ३१५(५), ३१८(४), ६१(२), २३८, ३०३(२), भ्रष्टाचारनिवारणाधिनियमस्य धारा १३(२) तथा १३(१)(क) एवं सार्वजनिकपरीक्षासु अनुचितसाधनानां निवारणाधिनियमस्य धारा १०, ३, ४, ५ तथा ११ इत्येतासां धाराणां अन्तर्गतं प्रथमसूचनाप्रतिवेदनं पञ्जीकृतम् आसीत्।

ततः पूर्वं न्यायालयेन त्रयाणाम् आरोपितानां मांगीलाल बिवालस्य, विकास बिवालस्य तथा दिनेश बिवालस्य मिथ्यावाक्यनिर्धारणपरीक्षणं कर्तुं अनुमतिः प्रदातुं निषेधः कृतः आसीत्। आरोपपत्रस्य विषये सुनवाईसमये सीबीआईपक्षतः उक्तं यत् अस्मिन् प्रकरणे द्वादशमे दिनाङ्के मेमासस्य प्रथमसूचनाप्रतिवेदनं पञ्जीकृतम् आसीत्। ततः अनन्तरमेव द्विसप्तत्यधिकारिणां तथा अष्ट साइबर-न्यायवैज्ञानिकविशेषज्ञानां साहाय्येन अन्वेषणं प्रारब्धम्।

सीबीआईद्वारा महाराष्ट्रे, राजस्थानप्रदेशे, हरियाणाप्रदेशे, दिल्लीप्रदेशे तथा अन्येषु राज्येषु द्विनवतिस्थानेषु छापामारी कृता। अस्मिन् प्रकरणे प्रथमग्रहणं त्रयोदशे दिनाङ्के मईमासस्य कृतम् आसीत्।

--------------------

Hindusthan Samachar / Dheeraj Maithani