Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अगस्तमासः (हि.स.)। देशे गजानां संरक्षणाय चतुर्दशसु राज्येषु त्रयस्त्रिंशत् गजाभयारण्याः तथा वैज्ञानिकरीत्या चिन्हिताः एकशतपञ्चाशत् गजपरिसराः सन्ति। विश्वगजदिवसस्य अवसरे केन्द्रीयपर्यावरणमन्त्री भूपेन्द्र-यादवः अवदत् यत् गजानां भविष्यस्य संरक्षणं भारतस्य वनानां, जैवविविधतायाः पारिस्थितिकविरासतश्च संरक्षणस्य समानम् अस्ति।
यादवः सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् गजानां सङ्ख्यायाः निरीक्षणाय आधुनिकप्रौद्योगिक्याः प्रयोगः क्रियते तथा मानव-गजसङ्घर्षं न्यूनीकर्तुं सुदृढाः उपायाः अपि क्रियन्ते। गजानां संरक्षणाय एतादृशाः प्रयत्नाः आवश्यकाः सन्ति, येन ते अग्रिमवंशपर्यन्तं भारतस्य वनेषु प्राकृतिकप्रदेशेषु च स्वच्छन्दतया विचरणं कर्तुं शक्नुयुः।
केन्द्रीयपर्यावरणराज्यमन्त्री कीर्तिवर्धन-सिंहः अवदत् यत् भारतदेशः विश्वस्य समृद्धतमेषु विविधतमेषु च प्राकृतिकप्रदेशेषु अन्यतमः अस्ति। विश्वस्य वन्य-एशियाई-गजेषु प्रायः षष्टिप्रतिशतम् भारतदेशे दृश्यन्ते। अतः गजाः देशस्य पारिस्थितिकपरम्परायाः महत्त्वपूर्णः अंशाः सन्ति।
सिंहः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे स्थापितानि गजाभयारण्याणि गजरक्षणे भारतस्य प्रतिबद्धतां प्रदर्शयन्ति। सः गजान् पर्यावरणस्य कृते महत्त्वपूर्णान् प्राणिनः वर्णयन् अवदत् यत् ते पारिस्थितिक-तन्त्रस्य सन्तुलनं स्थापयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।
सः अवदत् यत् यदा गजाः वनेषु विचरन्ति तदा ते दूरदूरपर्यन्तं बीजानि प्रसारयन्ति, येन नूतनानां पादपानां वर्धने सहायता भवति। एवं गजानां क्रियाकलापाः वनानां प्राकृतिकपारिस्थितिकतन्त्रस्य च संरक्षणे योगदानं कुर्वन्ति।
विश्वगजदिवसस्य अवसरे सिंहः जनान् एतेषां विशालकायवन्यजीवानां संरक्षणे तेषां प्राकृतिकावासानां च रक्षणे प्रयत्नैः सह एकीकर्तुं आह्वानं कृतवान्।
Hindusthan Samachar / Divya Ranjan