कूटौषधि-प्रकरणे एफ़एसडीए-संस्थायाः महती प्रक्रिया, चतुर्णां विरुद्धम् एफ.आई.आर. पञ्जीकृता
लखनऊनगरम्, १२ अगस्तमासः (हि.स.)। कूट-संदिग्ध-औषधीनां सम्पूर्ति-शृङ्खलायाः विरुद्धं प्रदेशसर्वकारः कठोरतया व्यवहरति। एतस्मिन्नेव क्रमे उत्तरप्रदेशस्य खाद्यसुरक्षा-औषधि-प्रशासनेन (एफएसडीएविभागद्वारा) बुधवासरे लखनऊनगरे अन्यस्य बृहतः सञ्जालं भङ्गं कुर्
कूटौषधि-प्रकरणे एफ़एसडीए-संस्थायाः महती प्रक्रिया, चतुर्णां विरुद्धम् एफ.आई.आर. पञ्जीकृता


लखनऊनगरम्, १२ अगस्तमासः (हि.स.)। कूट-संदिग्ध-औषधीनां सम्पूर्ति-शृङ्खलायाः विरुद्धं प्रदेशसर्वकारः कठोरतया व्यवहरति। एतस्मिन्नेव क्रमे उत्तरप्रदेशस्य खाद्यसुरक्षा-औषधि-प्रशासनेन (एफएसडीएविभागद्वारा) बुधवासरे लखनऊनगरे अन्यस्य बृहतः सञ्जालं भङ्गं कुर्वता महती विधि-प्रक्रिया सम्पादिता।

​विभागस्यानुसारम्, अमीनाबाद-क्षेत्रे वास्तविकानाम् औषधीनां सम्पूर्तिं विना कूट-अभिलेखैः, छद्म-विपणनेन, केवलं कर्गलेषु एव वित्तीय-व्यवहारेण च कूटौषधीनां विक्रयणस्य क्रीडा प्रचलति स्म। अस्मिन् प्रकरणे चतुर्णामभियुक्तानां विरुद्धम् अमीनाबाद-आरक्षीस्थाने भारतीय-न्याय-संहितायाः (बीएनएस) विविधाभिः धाराभिः एफ.आई.आर. अभिलिखिता।

​एफ.आई.आर-प्रकरणे अंकुर-अवस्थी (हेल्थ-प्लस-संस्थायाः स्वामी), मनीष-बाजपेयी (एम.के. फार्मा-संचालकः), गोविन्द-शुक्लः (राम-फार्मा-संचालकः), एजाज-अहमदः (पेशेंट-केयर-सर्जिकल-हाउस, सहारनपुर-संचालकः) च अभियुक्ताः कृताः। एताभिः संस्थाभिः वास्तविकानाम् औषधीनां प्रेषणं विना परस्परं छद्म-पत्रकाणि निर्मितानि, केवलं कर्गलेषु एव क्रय-विक्रयणयोः अभिलेखाः रचिताः इति आरोपः अस्ति।

​अनुज्ञापत्रं विना औषध-व्यापारस्य आरोपः

विभागस्यानुसारम्, अमीनाबादस्थस्य 'हेल्थ-प्लस' संस्थायाः स्वामी अंकुर-अवस्थी वैध-अनुज्ञापत्रं विना बृहत्परिमाणे औषधीनां सञ्चयस्य आदानप्रदानस्य च कूट-अभिलेखान् रचितवान्। अन्वेषणे गोविन्द-शुक्लस्यापि भूमिका स्पष्टा अभवत्, यः अस्याः संस्थायाः मुख्य-प्रबन्धकः आसीत्। अन्वेषणानुसारं 'हेल्थ-प्लस' तथा 'राम-फार्मा' इत्येते उभे अपि संस्थाने एकस्मिन्नेव तले संचालितौ आस्ताम्। एताभ्यां माध्यमेन औषधीनाम् अवैध-अभिलेख-परिवर्तनस्य सञ्जालः चाल्यते स्म। सहारनपुरस्य 'पेशेंट-केयर-सर्जिकल-हाउस' इति संस्था, या गतेभ्यः द्वाभ्यां वर्षाभ्यां स्थगिता आसीत्, तस्याः उपयोगः अपि कूट-क्रयस्य कर्गद-भ्रमणाय कृतः।

​८.८७ कोटि-रूप्यकाणां क्रयस्य स्वत्वम्

अस्मिन् प्रकरणे 'एम.के. फार्मा' संस्थायाः भूमिका अपि अन्वेषणस्य परिधौ अस्ति। विभागस्यानुसारम्, अस्याः संस्थायाः संचालकः मनीष-बाजपेयी वित्तीयवर्षे २०२६ प्रायः ८.८७ कोटि-रूप्यकाणाम् औषधीनां क्रयं दर्शितवान्। अन्वेषणकाले विभागाय एतादृशाः अभिलेखाः प्राप्ताः, येषु अन्यासां संस्थानां नाम्नि Zoryl M1, Augmentin, Dexorange Syrup इत्येतेषां क्रयः दर्शितः आसीत्। साक्ष्य-गोपनाय गणकयन्त्रस्य (लैपटॉप) पुरातन-दत्तांशः (विवरणं) अपि विलोपितः। यदा औषधि-निर्मातृ-संस्थाभिः सह अस्य सत्यापनं कृतम्, तदा ताभिः एतासाम् औषधीनां विक्रयः पूर्णतया प्रत्याख्यात: तथा च सम्बद्धाः समूहाः कूट-औषधयः इति घोषिताः।

​३९.२० लक्ष-मात्रायाः Zoryl M1 औषधेः विवरणं न प्राप्तम्

अन्वेषणे एम.के. फार्मा-संस्थायाः पार्श्वे Zoryl M1 औषधेः प्रायः ३९.२० लक्ष-मात्राणां कश्चिद् विवरणं न प्राप्तम्। एताः औषधयः अवैधरीत्या विपणौ विक्रीताः, येन जनानां स्वास्थ्याय प्राणेभ्यश्च गम्भीरः सङ्कटः उत्पन्नः। एफ़एसडीए-अधिकारिणाम् अनुसारं, सम्पूर्णे प्रकरणे कूट-अभिलेख-निर्माणस्य, छद्म-रचनायाः, कूटौषध-व्यापारस्य, अवैध-धनाकर्षणस्य च आशङ्कायाम् अन्वेषणं प्रचलति। अनेनैव आधारेण चतुर्णाम् अभियुक्तानां विरुद्धं बीएनएस-संहितायाः १११, २७६, २७७, २७८, ३१८, ३१९, ३३६, ३३८ इति धाराणाम् अन्तर्गतं कानूनी-प्रक्रिया कृता।

​अनुज्ञापत्र-निरस्तीकरणं, मध्यस्थानामपि उपरि भविष्यति विधिप्रक्रिया

विभागेन कूटौषधीनां सम्पूर्ति-शृङ्खलायाः भङ्गाय राज्यभरे तीव्र-निरीक्षणस्य निर्देशाः दत्ताः। खाद्यसुरक्षा-औषधि-प्रशासनस्य आयुक्तः डॉ. रोशन-जैकब महोदया सर्वभ्यः जनपदेभ्यः औषधि-निरीक्षकान् निर्दिष्टवती यत् अन्ताराज्यीय-सञ्जालैः सह सम्बद्धाः व्यापारिणः, स्थानीयाः थोक-विक्रेतारः, मध्यस्थाः च निरन्तरं निरीक्षणे स्थापनीयाः। अन्वेषणे ये अपि दोषिणः प्राप्यन्ते, तेषां व्यापार-अनुज्ञापत्राणि निरस्तानि करिष्यन्ते तथा च तेषां विरुद्धं आपराधिक-अभियोगः चालयिष्यते।

-----------------

Hindusthan Samachar / अंशु गुप्ता