Enter your Email Address to subscribe to our newsletters


— गोयलेन निष्पक्षव्यापारपद्धतीनां तथा ‘मेक् इन् इण्डिया’ इत्यस्य स्थानीयस्तरात् वैश्विकस्तरं प्रति विस्तारस्य आह्वानम्
नवदिल्ली, १२ अगस्तमासः (हि.स.)। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलः बुधवासरे भारतीयव्यवसायिभ्यः नागरिके-भ्यश्च भारतीयानां उत्पादानां सेवाश्च वैश्विकविपणिषु नयन् उचित-व्यापारपद्धतिनां परिपत्र-अर्थ-व्यवस्था-याश्च स्वीकरणस्य आह्वानं कृतवान्। सः अवदत् यत् यदि भारतं २०४७ तमवर्षपर्यन्तं ३० ट्रिलियन-डॉलर-मूल्यां अर्थव्यवस्थां निर्मातुम् इच्छति, तर्हि आर्थिकविकासेन सह स्थायित्वपूर्णाः उत्तरदायित्वपूर्णाश्च व्यावसायिकप्रतिमानाः स्वीकरणीयाः।
गोयलः नवदिल्ली इत्यत्य स्थिते भारतमण्डपे ‘भारतीयव्यापारमहोत्सवम्’ सम्बोधयन् अवदत् यत् अधुना नवभिः मुक्तव्यापारसन्धिभि: भारतीयोद्योगानां व्यवसायिनां च कृते विपण्यः उद्घाटिताः सन्ति। सः निष्पक्षव्यापारपद्धतिनां स्वीकरणस्य तथा ‘मेक् इन् इण्डिया’ इत्यस्य स्थानीयस्तरात् वैश्विकस्तरं प्रति विस्तारस्य अपि आह्वानं कृतवान्। गोयलः अवदत् यत् वर्तमानायाः ४ ट्रिलियन-डॉलर-मूल्यायाः अर्थव्यवस्थायाः २०४७ तमवर्षपर्यन्तं न्यूनातिन्यूनं ३० ट्रिलियन-डॉलर-मूल्यायाम् अर्थव्यवस्थायां परिणमनं भविष्यति।
गोयलेन भारतस्य निर्याते अभिवृद्धेः उल्लेखं कुर्वता कथितं यत् गतवर्षे वस्तूनां सेवाना च निर्यातः अभिलेखीयं ८६३ ट्रिलियन-डॉलर-मूल्यं प्राप्तवान्। अस्मिन् ४४२ ट्रिलियन-डॉलर-मूल्यस्य वस्तु-निर्यातः तथा ४२१ ट्रिलियन-डॉलर-मूल्यस्य सेवानिर्यातश्च अन्तर्भवतः। सः अवदत् यत् विगतेषु षड्वर्षेषु निर्याते प्रायः ७३ प्रतिशतं वृद्धिः अभिलिखिता, यदा चालूवित्तवर्षस्य निर्यातलक्ष्यं एकं ट्रिलियन-डॉलर् निर्धारितम् अस्ति। चलितवित्तवर्षस्य २०२६-२७ तमस्य प्रथमेषु चतुर्षु मासेषु निर्याते प्रायः १५ प्रतिशतं वृद्धिः अभिलिखिता इति अपि सः अवदत्।
गोयलः अवदत् यत् भारतस्य व्यापारी उत्पादकश्च देशस्य शक्तिः अस्ति तथा च अद्य भारतीयव्यापारमहोत्सवस्य माध्यमेन पुनः स्वव्यापारिभिः उत्पादकबन्धुभिश्च सम्पर्कं कर्तुं अवसरः प्राप्तः। सः अग्रे अवदत् यत् अधुनैव सम्पन्नानां मुक्तव्यापार-सन्धिनां माध्यमेन भारतस्य उद्यमी ‘वोकल फॉर लोकल’ इत्यस्मात् ‘लोकल टू ग्लोबल’ इति दिशि गच्छन् विश्वस्य विपणिषु स्वस्य अमिटं चिह्नं स्थापयति।
ततः पूर्वं केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलेन भारतमण्डपे दीपप्रज्वालनं कृत्वा अगस्तमासस्य १२ दिनाङ्कात् १५ दिनाङ्कपर्यन्तं चलिष्यमाणस्य चतु-र्दिवसीयस्य भारतीयव्यापार-महोत्सवस्य उद्घाटनं कृतम्। अस्मिन् अवसरे स्वदेशीजागरणमञ्चस्य कश्मीरीलालः, वाणिज्योद्योगराज्यमन्त्री जितिनप्रसादः, पूर्वकेन्द्रीयमन्त्री स्मृतिईरानी, कैट्-सङ्घस्य राष्ट्रियमहामन्त्री प्रवीण-खण्डेलवालः अन्ये च विशिष्टातिथयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan