Enter your Email Address to subscribe to our newsletters

- राज्यपालस्य अनुशंसायाः आधारेण केन्द्रसर्वकारः निर्णयं करिष्यति।
चण्डीगढम्, १२ अगस्तमासः (हि.स.)। पञ्जाबस्य पूर्वमुख्यमन्त्रिणः स्वर्गीयस्य बेअन्तसिंहस्य हत्यायाः दोषी जगतारसिंहहवारस्य पेरोल-अवकाशस्य विषयः सम्प्रति चर्चायां वर्तते। पञ्जाबस्य मुख्यमन्त्रिणा भगवन्तसिंहमानेन बुधवासरे राज्यपालः गुलाबचन्दकटारिया मिलित्वा जगतारसिंहहवाराय मानवीया-धारेण दशदिनानां पेरोल-अवकाशं प्रदातुं अनुशंसां कर्तुं अनुरोधः कृतः। मुख्यमन्त्रिणा उक्तं यत् एकत्रिंशत् वर्षाणाम् अनन्तरं तस्याः रुग्णायाः मातुः स्वपुत्रेण सह मिलनस्य आशा पुनरपि जागृता अस्ति।
मुख्यमन्त्रिणा भगवन्तसिंहमानेन उक्तं यत् अस्मिन् विषये राज्यपालस्य अनुशंसा आवश्यकी अस्ति, यतः अस्य प्रकरणस्य श्रवणप्रक्रिया दिल्ली इत्यत्र प्रचलति। तेन सह आश्वासनमपि दत्तं यत् यदि हवाराय पेरोल-अवकाशः प्रदीयते, तर्हि पञ्जाबसर्वकारः विधिव्यवस्थायाः विषये किमपि प्रतिकूलप्रभावं न भवेत् इति सुनिश्चेतुं पूर्णदायित्वेन कार्यं करिष्यति।
मुख्यमन्त्रिणा भगवन्तसिंहमानेन उक्तं यत् जगतारसिंहहवारा विगतानि एकत्रिंशत् वर्षाणि यावत् कारागारे निरुद्धः अस्ति। तस्य माता वृद्धावस्थायां वर्तते, वयोसम्बद्धैः स्वास्थ्यसमस्याभिः पीडिता अस्ति तथा च सम्प्रति अर्धमूर्छितावस्थायां वर्तते। तस्याः अवनतां स्वास्थ्यस्थितिं दृष्ट्वा मया राज्यपालस्य समीपे अनुरोधः कृतः यत् ते जगतारसिंहहवाराय यथाशीघ्रं दशदिनानां पेरोल-अवकाशं प्रदातुं सहानुभूतिपूर्वकं विचारं कुर्युः, येन सः स्वमात्रा सह मिलितुं शक्नुयात्।
मुख्यमन्त्रिणा उक्तं यत् जगतारसिंह-हवारस्य स्वगृहम् आगमनसमये विधिव्यवस्थायाः स्थितिं संरक्षितुं राज्यसर्वकारः पूर्णं दायित्वं स्वीकरोति। तस्य समर्थकैः परिवारजनैश्च अपि अस्मिन् विषये राज्यसर्वकाराय पूर्णसहयोगस्य आश्वासनं दत्तम् अस्ति।
तेन उक्तं यत् राज्यसर्वकारः विधिव्यवस्थां संरक्षितुं पञ्जाबे दीर्घप्रयत्नेन प्राप्तां शान्तिं रक्षितुं च पूर्णतया प्रतिबद्धः अस्ति। अस्मिन् कार्ये किमपि न्यूनता न भविष्यति। राज्यसर्वकारस्य पक्षतः अस्य विषयस्य केन्द्रसर्वकारस्य समक्षं प्रस्तुत्यर्थं राज्यपालाय पूर्णसहयोगस्य आश्वासनमपि मया दत्तम्।
Hindusthan Samachar / Divya Ranjan