Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 अगस्तमासः (हि.स.)।
संसदः प्रावृट्सत्रे प्रचलितस्य गतिरोधस्य मध्ये संसदीयकार्यस्य मन्त्री किरणरिजिजूः बुधवासरे अवदत् यत् वर्तमानस्थित्या सः निराशः अस्ति। सः अवदत् यत् जीवनस्य प्रथमवारं सः एतादृशीं स्थितिं पश्यति, यत्र सर्वकारः स्वयमेव संसदः चर्चायै सिद्धः अस्ति, किन्तु विपक्षः चर्चायाः विमुखः भवति।
किरणरिजिजूः पत्रकारैः सह वार्तालापं कुर्वन् अवदत्, “अहं पूर्णतया निराशः अस्मि। स्वजीवने प्रथमवारम् एतादृशीं स्थितिं पश्यामि, यत्र सर्वकारः संसदः चर्चाम् इच्छति, किन्तु विपक्षः चर्चातः पलायते।”
सः अवदत् यत् संसदीयलोकतन्त्रे सामान्यतः विपक्षः चर्चायै आग्रहं करोति तथा सर्वकारः तस्य उत्तरं ददाति, किन्तु वर्तमानस्थितिः अस्याः व्यवस्थायाः सर्वथा विपरीता अस्ति। सः अवदत् यत् सर्वकारः स्पष्टतया कथयति यत् सा चर्चां कर्तुं सर्वेषां प्रश्नानाम् उत्तराणि दातुं च सिद्धा अस्ति, किन्तु विपक्षः सर्वकारस्य उत्तरं श्रोतुम् इच्छति न। रिजिजूः अवदत् यत् लोकतन्त्रस्य दृष्ट्या एषा शुभा स्थितिः नास्ति।
संसदीयकार्यस्य मन्त्री अवदत् यत् सर्वकारेण विपक्षस्य समक्षं पुनः पुनः चर्चायै स्वसम्मतिः तत्परता च प्रकटिता, किन्तु विपक्षः तदर्थं सिद्धः न भवति। अत एव केन्द्रीयगृहमन्त्रिणा पुनरपि लोकसभाध्यक्षाय पत्रं लेखितुं प्रवृत्तम्। रिजिजोः अनुसारं गृहमन्त्रिणा लोकसभाध्यक्षाय लिखिते पत्रे पुनः कथितं यत् सर्वकारः सदने मुक्तरूपेण, व्यापकतया विस्तृतरूपेण च चर्चां कर्तुं सिद्धः अस्ति। तेन सह गृहमन्त्रिणा लोकसभाध्यक्षात् विपक्षनेतॄन् चर्चायै सहमतान् कर्तुं आग्रहः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani