मोहनयादवः अद्य अहमदाबादे उद्योगपतिभिः निवेशकैश्च सह संवादं करिष्यति
मध्यप्रदेशे निवेशाय आमन्त्रणं दास्यति भोपालम्, १२ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य औद्योगिकविकासं गतिं प्रदातुं मुख्यमन्त्री डॉ. मोहनयादवः अद्य अहमदाबादे गुजरातस्य प्रमुखैः उद्योग-पतिभिः निवेशकैश्च सह संवादं करिष्यति। मुख्यमन्त्री गुजरातस्य उद्योग
सीएम मोहन यादव (फाइल फोटो)


मध्यप्रदेशे निवेशाय आमन्त्रणं दास्यति

भोपालम्, १२ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य औद्योगिकविकासं गतिं प्रदातुं मुख्यमन्त्री डॉ. मोहनयादवः अद्य अहमदाबादे गुजरातस्य प्रमुखैः उद्योग-पतिभिः निवेशकैश्च सह संवादं करिष्यति। मुख्यमन्त्री गुजरातस्य उद्योगजगतः मध्यप्रदेशे उपलब्धानां निवेशावसराणां, अनुकूलानाम् औद्योगिक-नीतीनां निवेशकानां च कृते उपलब्धानां सुविधानां विषये अवगतं करिष्यति तथा च प्रदेशे निवेशाय तान् आमन्त्रयिष्यति।

जनसम्पर्काधिकारिणी बबिता मिश्रा इत्यनया उक्तं यत् अहमदाबादे आयोजिते निवेशमार्गप्रदर्शने मुख्यमन्त्री डॉ. यादवः अहमदाबादप्रवासकाले गुजरातस्य प्रमुखानाम् औद्योगिकसमूहानां वरिष्ठ-प्रतिनिधिभिः सह एकान्तसभाः करिष्यति। अस्मिन् अवसरे मुख्यमन्त्री डॉ. यादवः अग्रिमं वैश्विकनिवेशक-शिखर-सम्मेलनम्-२०२७ इत्यर्थम् अपि गुजरातस्य उद्योगजगतः प्रतिनिधीन् आमन्त्रयिष्यति।

तया उक्तं यत् मुख्यमन्त्री अरविन्द लिमिटेड्, टोरेण्ट् पावर तथा अदाणीसमूहस्य वरिष्ठप्रतिनिधिभिः सह चर्चां करिष्यति। एतासु सभासु वस्त्र, ऊर्जा, आधारभूतसंरचना, विनिर्माणम् औद्योगिक-विस्तारश्च इत्येतेषु क्षेत्रेषु मध्यप्रदेशे निवेशस्य सम्भावनासु विचारविमर्शः भविष्यति। हरिकृष्णा एक्स्पोर्ट् इत्यस्य अध्यक्षेन ढोलकिया-महोदयेन, चिरिपालसमूहस्य अध्यक्षेन बृजमोहनचिरिपालेन तथा अग्रवाल-समूहस्य अध्यक्षेन चिमनभाई-शाहेन सह अपि व्यक्तिगतसभाः करिष्यति। संवादेषु सम्भावित-निवेशपरियोजनानां, औद्योगिकविस्तारस्य, भूमेः उपलब्धतायाः तथा निवेशकेभ्यः उपलब्धानां सुविधानां सहयोगस्य च विषये चर्चा भविष्यति।

जनसम्पर्काधिकारिण्याः अनुसारं अहमदाबादस्य ताज स्काइलाइन होटल इत्यत्र आयोजिते मुख्यनिवेशकसंवादसत्रे मध्यप्रदेशस्य औद्योगिकक्षमता तथा निवेशसम्भावनाः प्रभावशालीरूपेण प्रस्तुताः भविष्यन्ति। कार्यक्रमे सी.आई.आई. गुजरात स्टेट काउन्सिल इत्यस्य अध्यक्षः तथा सिम्फनी लिमिटेड् इत्यस्य अध्यक्षः अचलः बाकेरी स्वागतभाषणं करिष्यति। ततः मध्यप्रदेशे निवेशावसराणां विषये विशेषा श्रव्य-दृश्य-प्रस्तुतिः भविष्यति।

कार्यक्रमे अपरमुख्यसचिवः नीरज-मण्डलोई मध्यप्रदेशस्य औद्योगिक-परिदृश्यस्य, सुदृढाधारभूतसंरचनायाः, निवेशकानुकूलनीतीनां तथा विभिन्नेषु क्षेत्रेषु उपलब्धानां निवेशावसराणां विषये विस्तृतां प्रस्तुतिं करिष्यति। प्रमुखसचिवः एम. सेल्वेन्द्रन् प्रदेशस्य प्रौद्योगिकी-पारिस्थितिकीतन्त्रस्य, नवाचारस्य, अनुसन्धानस्य विकासस्य च, नवोद्यमानां तथा उच्चप्रौद्योगिकी-मूलकनिवेशस्य सम्भावनानां विषये प्रकाशं पातयिष्यति। कार्यक्रमे वेल्स्पन इत्यस्य चिन्तनठाकरे तथा चिरिपाल-समूहस्य बृजमोहन-चिरिपालः अपि स्वविचारान् प्रकटयिष्यतः।

जनसम्पर्काधिकारिणी अवदत् यत् अहमदाबादस्य अयं निवेशसंवादः गुजरातस्य मध्यप्रदेशस्य च उद्योगजगतः मध्ये निवेशसहयोगाय नूतनां दिशां प्रदातुं दृष्ट्या महत्त्वपूर्णः भविष्यति। गुजरातः देशस्य अग्रणीषु औद्योगिकराज्येषु अन्यतमः अस्ति तथा च अत्रत्याः औद्योगिकसमूहाः विनिर्माणे, ऊर्जाक्षेत्रे, वस्त्रोद्योगे, निर्यातक्षेत्रे, आधारभूत-संरचनायां प्रौद्योगिकीक्षेत्रे च सुदृढां उपस्थितिं धारयन्ति। मध्यप्रदेशे उपलब्धा औद्योगिकभूमिः, उत्तमा सम्पर्कव्यवस्था, पर्याप्ता ऊर्जा, कुशलः मानवसंसाधनः तथा निवेशकानुकूलाः नीतयः गुजरातस्य निवेशकेभ्यः नूतनान् विस्तारावसरान् प्रदास्यन्ति।

तया उक्तं यत् मुख्यमन्त्री डॉ. यादवस्य नेतृत्वे मध्यप्रदेशसर्वकारः देशस्य विदेशस्य च प्रमुखैः निवेशकैः सह निरन्तरं संवादं स्थापयति। अहमदाबादे आयोज्यमानम् इदं निवेशमार्गप्रदर्शनम् अस्यैव प्रयासस्य महत्त्वपूर्णं सोपानम् अस्ति, येन गुजरातस्य प्रमुखान् औद्योगिकसमूहान् मध्यप्रदेशे निवेशस्य सम्भावनाभिः सह सम्बद्धुं शक्यते। अनेन नूतनानां निवेश-प्रस्तावानाम्, औद्योगिकविस्तारस्य तथा रोजगारसृजनस्य च गतिः वर्धिष्यते इति आशा अस्ति। अग्रिमं वैश्विकनिवेशक-शिखरसम्मेलनम्-२०२७ इत्यर्थम् अपि सुदृढः निवेशाधारः निर्मितः भविष्यति।

Hindusthan Samachar / Divya Ranjan