Enter your Email Address to subscribe to our newsletters



भोपालम्, 12 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य शैलचित्रेषु कला साहित्य राजकीयप्रतीकेषु च गजानां उपस्थितिः सहस्रशः वर्षेभ्यः अभिलेखिता वर्तते। कोटिशः वर्षेभ्यः पूर्वस्य जीवाश्माः, ये अत्रत्येषु संग्रहालयेषु अपि संरक्षिताः सन्ति, एतत् दर्शयन्ति यत् मध्यप्रदेशः विश्वस्य प्राचीनतमेषु गजप्रदेशेषु अन्यतमः आसीत्। भारते एशियाईगजानां वैश्विकसंख्यायाः षष्टिप्रतिशतम् अस्ति। अस्य दृष्ट्या अन्ताराष्ट्रियपरिप्रेक्ष्ये गजसंरक्षणे मध्यप्रदेशस्य अत्यन्तं महत्त्वपूर्णं स्थानम् अस्ति।
इयं सूचना बुधवासरे विश्वगजदिवसस्य अवसरे भोपालनगरे राज्यपुरातत्त्वसंग्रहालयपरिसरे इण्डियन नेशनल ट्रस्ट फॉर आर्ट एण्ड कल्चरल हेरिटेज इत्यस्य भोपालशाखया आयोजिते कार्यक्रमे प्रदत्ता। पद्मश्री डाॅ. नारायणव्यासः कार्यक्रमं सम्बोधयन् अवदत् यत् मध्यप्रदेशस्य सन्दर्भे आदिकालादेव गजानां विशिष्टं स्थानम् आसीत्। अस्माकं कलायां संस्कृतौ साहित्ये च निरन्तरं तेषां वर्णनं कृतम् अस्ति। सः अवदत् यत् प्रदेशस्य शैलचित्रेषु सहस्रशः वर्षेभ्यः गजानां चित्रणं दृश्यते। एतत् तस्य प्रतीकम् अस्ति यत् गजाः अस्माकं सामाजिकसंरचनया सह अत्यन्तं गभीररूपेण सम्बद्धाः सन्ति।
इंटेक भोपालशाखायाः संयोजकः मदनमोहन उपाध्यायः अवदत् यत् मध्यप्रदेशे गजलोकपरियोजनायाः विशेषं महत्त्वम् अस्ति। गतवर्षात् इंटेकसंस्था प्रदेशस्य सर्वेषु क्षेत्रेषु गजसम्बद्धानां गाथानां, युद्धेषु तेषां भूमिकायाः, कलायां संस्कृतौ लोकगाथासु च तेषां चित्रणस्य दस्तावेजीकरणं कुर्वती अस्ति। सः अवदत् यत् अस्याः परियोजनायाः कृते भारतसर्वकारस्य संस्कृतिमन्त्रालयेन सहयोगः प्रदीयते तथा वयं संस्थागतसहभागिरूपेण अस्यां परियोजनायां भूमिकां निर्वहामः।
कार्यक्रमे पद्मश्री डाॅ. व्यासेन “गजलोक वाइल्ड सेक्रेड इटरनल” इति चलचित्रस्य विमोचनं कृतम्। अस्य वृत्तचित्रस्य माध्यमेन जनजागरूकतां वर्धयितुं प्रयासः कृतः अस्ति। चलचित्रे भारतीयगजानां सामान्यविचरणक्षेत्रस्य विषये सूचना प्रदत्ता अस्ति। केरलप्रदेशस्य दक्षिणभारतस्य च देवालयेषु गजानां विशेषं स्थानम् इति सर्वविदितम् अस्ति।
मध्यप्रदेशस्य बांधवगढव्याघ्राभयारण्यस्य गौतमः नाम गजः विशेषं स्थानं धारयति। गढामण्डलस्य गिन्नौरगढस्य च गौण्डसाम्राज्ये अपि गजः राजकीयचिह्नस्य महत्त्वपूर्णः भागः आसीत्। धारराज्यस्य मुद्रायाम् अपि गजस्य चिह्नम् आसीत्। तथैव साञ्चीस्थिते विश्वप्रसिद्धे यूनेस्को स्मारके गजानां यत् सुन्दरं चित्रणं कृतम् अस्ति, तत् सम्भवतः विश्वस्य अन्यस्मिन् स्थले दुर्लभमेव दृश्यते। गजलक्ष्म्याः स्वरूपेण अपि गजस्य चित्रणं प्राप्यते। गणेशः तु अनन्तकालादेव अस्माकम् आराध्यदेवः अस्ति।
इंटेक भोपालशाखया आग्रहः कृतः यत् गजसम्बद्धा या कापि कथा, कहानी अथवा सूचना विद्यमाना अस्ति, सा साझीकृता भवेत्, येन तस्याः राष्ट्रियाभिलेखे समावेशः कर्तुं शक्यते। कार्यक्रमे वन्यजीवप्रेमिणः विद्यार्थिनश्च उपस्थिताः आसन्।
----------------
Hindusthan Samachar / Dheeraj Maithani