Enter your Email Address to subscribe to our newsletters

२७ वर्षाणाम् अनन्तरं यूरोपे भविष्यति पूर्णसूर्यग्रहणम्, भारते तु रात्रिकालत्वात् न दृश्यमाणं भविष्यति
भोपालम्, १२ अगस्तमासः (हि.स.)। श्रावणमासस्य अमावस्यायां अन्तरिक्षे अतीव दुर्लभा ऐतिहासिकी च खगोलीया घटना भवितुम् अस्ति। अद्य वर्षस्य बृहत्तमं पूर्णसूर्यग्रहणं भविष्यति, येन कारणेन विश्वस्य अनेकभागेषु दिवा एव पूर्णरूपेण अन्धकारः व्याप्तः भविष्यति।
मध्यप्रदेशस्य राष्ट्रीयपुरस्कारप्राप्ता विज्ञानप्रसारिका सारिका घारू अवदत् यत् एषा घटना विशेषरूपेण यूरोपमहाद्वीपस्य कृते ऐतिहासिकी अस्ति, यतः तत्र २७ वर्षाणाम् अनन्तरं पूर्णसूर्यग्रहणं दृश्यमाणं भविष्यति। इतः पूर्वं यूरोपे १९९९ तमे वर्षे एतादृशं दृश्यं दृष्टम् आसीत्।
तया उक्तं यत् भारतीयसमयानुसारं ग्रहणम् अगस्तमासस्य १२ दिनाङ्के रात्रौ ९ वादनसमये आरभ्य मध्यरात्रिं अतिक्रम्य १३ अगस्तदिनाङ्के रात्रौ १ वादनस्य २७ निमेषे समाप्तं भविष्यति। ग्रहणस्य सम्पूर्णः कालः भारते रात्रिसमये भविष्यति, यदा सूर्यः पूर्वमेव क्षितिजस्य अधः स्थितः भविष्यति। अतः एतत् सूर्यग्रहणं भारतस्य कस्मिन्नपि भागे न दृश्यते।
तया उक्तं यत् ग्रहणकाले चन्द्रमसः विशालच्छाया पृथिव्याः विस्तीर्णं भागं आच्छादयिष्यति। पूर्णसूर्यग्रहणस्य मुख्यः मार्गः उत्तररूसदेशात्, ग्रीनलैण्डतः, आइसलैण्डतः, स्पेनदेशात् पूर्तगालदेशाच्च गमिष्यति, यत्र जनाः दिवसे एव रात्रेः अनुभवम् करिष्यन्ति। तदतिरिक्तं सम्पूर्णे यूरोपे, कनाडादेशे तथा उत्तर-अमेरिकायाः केषुचित् भागेषु आंशिकसूर्यग्रहणं द्रष्टुं शक्यते।
सारिकया जनाः ग्रहणसम्बद्धेभ्यः अन्धविश्वासेभ्यः दूरं स्थातुं तथा च एतां केवलां सुन्दरीं प्राकृतिकीं खगोलीयां च घटनां द्रष्टुं आहूताः। विश्वस्य प्रायः द्वादशप्रतिशतं जनसंख्यावर्गः एतत् ग्रहणं प्रत्यक्षं द्रष्टुं शक्नोति। भारतस्य खगोलप्रेमिणः तु नासा अथवा अन्यासां वैज्ञानिकसंस्थानां माध्यमेन अन्तर्जाल-प्रत्यक्षप्रसारणद्वारा एतत् अद्भुतं दृश्यं द्रष्टुं शक्नुवन्ति।
तया उक्तं यत् अस्य सूर्यग्रहणस्य पञ्चदशदिनानन्तरं अगस्तमासस्य २८ दिनाङ्के आंशिकचन्द्रग्रहणं भविष्यति, किन्तु तदपि भारतात् द्रष्टुं न शक्यते। सारिका अवदत् यत् यदि भारतस्य जनाः स्वनगरे सूर्यग्रहणं द्रष्टुम् इच्छन्ति, तर्हि तेषां २ अगस्त २०२७ पर्यन्तं प्रतीक्षा कर्तव्या, यदा तत् आंशिकसूर्यग्रहणरूपेण दृश्यते।
Hindusthan Samachar / Divya Ranjan