हरियाणाराज्यस्य नूंहजनपदे मदरसा-छात्राभिः त्रिरङ्गायात्रा निष्कासिता, देशभक्तेः शिक्षायाश्च सन्देशः प्रदत्तः
नूंहः, १२ अगस्तमासः (हि.स.)। हरियाणराज्यस्य नूंहजनपदे पसमांदा-विकास-प्रतिष्ठानेन बुधवासरे देशभक्तेः सामाजिकजागरूकतायाश्च सन्देशं प्रसारयितुं त्रिरङ्गायात्रा आयोजिता। यासीन-मेव-महाविद्यालयात् प्रारब्धायां यात्रायां जनपदस्य विभिन्नेषु इस्लामीय-मदरसास
इस्लामी मदरसों में पढ़ने वाली सैकड़ों बच्चियां ने एक हाथ में कुरान, दूसरे में तिरंगा लेकर नूंह में निकली तिरंगा यात्रा।


इस्लामी मदरसों में पढ़ने वाली सैकड़ों बच्चियां ने एक हाथ में कुरान, दूसरे में तिरंगा लेकर नूंह में निकली तिरंगा यात्रा।


नूंहः, १२ अगस्तमासः (हि.स.)। हरियाणराज्यस्य नूंहजनपदे पसमांदा-विकास-प्रतिष्ठानेन बुधवासरे देशभक्तेः सामाजिकजागरूकतायाश्च सन्देशं प्रसारयितुं त्रिरङ्गायात्रा आयोजिता। यासीन-मेव-महाविद्यालयात् प्रारब्धायां यात्रायां जनपदस्य विभिन्नेषु इस्लामीय-मदरसासु अध्ययनं कुर्वत्यः शताधिकाः छात्राः भागं गृहीतवत्यः। छात्राः एकस्मिन् हस्ते कुरानग्रन्थं द्वितीये हस्ते त्रिरङ्गं च धृत्वा यात्रायां सम्मिलिताः अभवन्।

पसमांदा-विकास-प्रतिष्ठानस्य अध्यक्षः मोहम्मद-मेराज-राईनः अवदत् यत् प्रतिष्ठानं समाजस्य उत्थानाय बालकान् मुख्यधारया सह संयोजयितुं च कार्यं करोति। सः अवदत् यत् मदरसासु अध्ययनं कुर्वतां बालकानां विषये समाजे विविधाः धारणाः सन्ति। ताः धारणाः दूरीकर्तुं तथा मदरसासु अध्ययनं कुर्वन्तः बालकाः अपि देशस्य समाजस्य च प्रगत्यै स्वकीयां भूमिकां निर्वोढुम् इच्छन्ति इति सन्देशं दातुं यात्रा आयोजिता।

सः अवदत् यत् मदरसासु पठन्तः बालकाः ‘जिहादी’ इति कथ्यमानाः भवन्ति इति कारणेन समाजस्य जनाः दुःखिताः भवन्ति। सः अवदत् यत् मुस्लिमसमुदायस्य जनानां कुरानग्रन्थे यथा प्रेम अस्ति, तथैव देशस्य त्रिरङ्गे भारतदेशे च अपि प्रेम अस्ति। यात्रायाः माध्यमेन भ्रातृत्वस्य, देशभक्तेः, शिक्षायाश्च सन्देशः प्रसारितः।

प्रतिष्ठानस्य अध्यक्षः अवदत् यत् मुस्लिमसमुदायस्य बालकाः अपि भारतीय-प्रशासनिक-सेवायां, भारतीय-आरक्षक-सेवायां, वैद्यकीयक्षेत्रे अभि-यान्त्रिकीक्षेत्रे च गन्तुम् इच्छन्ति, किन्तु अनेकस्थलेषु संसाधनानाम् अभावः तेषां पुरतः आह्वानरूपेण वर्तते। सः प्रधानमन्त्रीं प्रति आग्रहं कृतवान् यत् मदरसासु अध्ययनं कुर्वद्भ्यः बालकेभ्यः सङ्गणकाः प्रदीयन्ताम्, येन ते धार्मिकशिक्षया सह आधुनिकां प्रौद्योगिकीयां च शिक्षां प्राप्तुं तथा देशस्य प्रगतौ योगदानं दातुं शक्नुयुः।

तत्रैव पसमांदा-विकास-प्रतिष्ठानस्य महिला-अध्यक्षा निखत-परवीनः अवदत् यत् पसमांदा-समुदायस्य कन्याः अधुना पश्चात् न सन्ति। सा अवदत् यत् त्रिरङ्गायात्रायां सम्मिलिताः बालिकाः मदरसासु अध्ययनं कुर्वन्ति तथा धार्मिकशिक्षया सह आधारभूतशिक्षाम् अपि प्राप्नुवन्ति। यात्रायां बालिकाणां सहभागितां सा शिक्षायाः, जागरूकतायाः, प्रगतिपथस्य च दिशि महत्त्वपूर्णं पदक्षेपं वर्णितवती।

जनपदप्रशासनस्य पक्षतः नूंहस्य उपमण्डलाधिकारी कुँवर-आदित्य-विक्रमः पसमांदा-विकास-प्रतिष्ठानेन आयोजिता त्रिरङ्गायात्रां ध्वजं प्रदर्श्य प्रारम्भं कारितवान्।

Hindusthan Samachar / Divya Ranjan