Enter your Email Address to subscribe to our newsletters

लखनऊ, 12 अगस्तमासः (हि.स.)।
स्वातन्त्र्यदिवसस्य सन्दर्भे उत्तरप्रदेशस्य राजधानी लखनऊनगरे सज्जताः प्रारब्धाः सन्ति। अस्यैव क्रमस्य अन्तर्गतं बुधवासरे पञ्चत्रिंशत् वाहिनी पीएसी इत्यस्य राज्यवाद्यवृन्देन राष्ट्रभक्तिभावनया ओतप्रोतानां मधुरध्वनीनां प्रस्तुतिर्विहिता।
पञ्चत्रिंशत् वाहिनी पीएसी इत्यस्य राज्यवाद्यवृन्देन अद्य प्रातः जनेश्वरमिश्र-उद्यानस्य तथा डॉ. राममनोहरलोहिया-उद्यानस्य च परिसरे राष्ट्रभक्त्या राष्ट्रैकतया च प्रेरितानां मधुरध्वनीनां मनोहारिणं वादनं कृतम्। राज्यवाद्यवृन्दस्य एतां प्रस्तुतिं दृष्ट्वा उद्यानेषु उपस्थितेषु सामान्यजनेषु राष्ट्रप्रेम्णः, राष्ट्रियैकतायाः, देशस्य प्रति समर्पणभावनायाश्च सञ्चारः अभवत्। केचन जनाः अस्य क्षणस्य चित्राणि स्वचलदूरभाषयन्त्रैः गृहीतवन्तः तथा वाद्यवृन्दस्य प्रस्तुतिं प्रशंसितवन्तः।
उल्लेखनीयं यत् अस्य आयोजनस्य उद्देश्यं स्वातन्त्र्यदिवसस्य पूर्वं सामान्यजनान् राष्ट्रस्य स्वातन्त्र्यार्थं कृतानां बलिदानानां स्मृत्या सम्बद्धान् कृत्वा देशभक्तेः राष्ट्रियगौरवस्य च भावनां जागरयितुम् अस्ति। तदनन्तरं समाजे राष्ट्रियैकतायाः कर्तव्यनिष्ठायाश्च सन्देशं प्रसारयितुम् अपि अस्य आयोजनस्य प्रमुखमुद्देश्यम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani