Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ अगस्तमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः बुधवासरे विपक्षः संसदः कार्यवाहीं बाधते इति आरोपं कृत्वा अवदत् यत् सर्वकारः प्रत्येकं विषये चर्चायै सिद्धः अस्ति। सः अवदत् यत् विपक्षः अद्य अपराह्ण-त्रिवादनपर्यन्तं लोक-सभाध्यक्षाय चर्चार्थं पत्रं दद्यात्। सर्वकारः अपराह्ण-त्रिवादनात् आरभ्य परदिने त्रिवादनपर्यन्तं चर्चां कर्तुं सिद्धः अस्ति। सः स्वयम् अपि सदने उपस्थितः भूत्वा सर्वेषां प्रश्नानाम् उत्तराणि दास्यति।
शाहः संसदः परिसरे पत्रकारैः सह वार्तालापे अवदत् यत् संसदः वर्षाकालीनसत्रस्य आरम्भात् सः नियमितरूपेण संसदं समागच्छति तथा स्वकीय-कक्षे उपस्थितः भवति, किन्तु विपक्षः उभयोः सदनयोः कार्यवाहीं प्रचलितुं न ददाति। एतादृशी स्थितौ सदनस्य अन्तः गत्वा अपि किं कर्तुं शक्यते? सः अवदत् यत् अधुना जनतैव निर्णयं कुर्यात् यत् वस्तुतः कः पलायते।
गृहमन्त्री अवदत् यत् संसदीयकार्यमन्त्री किरेण रिजिजू पूर्वमेव स्पष्टं कृतवान् यत् नीट्-परीक्षायाः सम्बन्धितानां छात्राणां विरोधप्रदर्शनस्य सर्वेषाम् अङ्गानां विषये चर्चां कर्तुं सर्वकारः सिद्धः अस्ति। सः अवदत् यत् विपक्षस्य प्रारम्भिकी याचना आसीत् यत् चर्चायै समयः निर्धारितः भवेत्, तथा च सर्वकारः तस्मिन् विषये सहमतः अभवत्। सः स्वयम् अपि संसदः मध्ये उत्थापितस्य प्रत्येकं प्रश्नस्य उत्तरं दातुं सिद्धः अस्ति, किन्तु विपक्षः चर्चामेव कर्तुं न इच्छति।
सः अवदत् यत् सर्वकारस्य पार्श्वे गोपनीयं स्थापयितुं किमपि नास्ति। शाहः अवदत् यत् सर्वकारः केवलं वक्तव्यं प्रदानस्य स्थाने संसदीयनियमानाम् स्थापितप्रक्रियाणां च अन्तर्गतं विस्तृतचर्चायाः पक्षे अस्ति। सः अवदत् यत् गम्भीरविषयेषु संसदि विस्तरेण चर्चा भवति, एष एव संसदीयः मार्गः।
शाहः अवदत् यत् सः अद्य अपराह्णे त्रिवादनात् चर्चाम् आरभ्य परदिने त्रिवादनपर्यन्तं तां निरन्तरं कर्तुं सिद्धः अस्ति। आवश्यकतायां रात्रेः विलम्बपर्यन्तं सदने उपविश्य चर्चां निरन्तरं कर्तुम् अपि सः सिद्धः अस्ति। सः एतदपि अवदत् यत् यदि लोकसभाध्यक्षः अनुमतिं ददाति, तर्हि प्रश्नकालं स्थगयित्वा चर्चां अग्रे नेतुं शक्यते।
सः अवदत् यत् सः सम्पूर्णायां चर्चायां सदने उपविष्टः स्थास्यति, सर्वेषां सदस्यनाम् वचनं श्रोष्यति, महत्त्वपूर्णान् बिन्दून् टिप्पणीरूपेण लिखिष्यति तथा च प्रत्येकं प्रश्नस्य उत्तरं दास्यति, येन देशस्य जनानां पुरतः सम्पूर्णस्य विषयस्य वास्तविकता स्पष्टा भवेत्।
गृहमन्त्री विपक्षम् अवदत् यत् अधुना तेन निर्णेतव्यं यत् सः संसदि चर्चां कर्तुम् इच्छति उत कोलाहलं कर्तुम्। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतीयजनतापक्षस्य सर्वकारः तथा राष्ट्रीयजनतान्त्रिकगठबन्धनस्य सर्वकारः प्रत्येकं विषये चर्चायै सिद्धः अस्ति। विपक्षेण संसदः कार्यवाहीं सुचारुरूपेण प्रचलितुं दातव्यम्।
शाहः एतदपि अवदत् यत् ‘लापता’ तथा ‘भाग गये’ इत्यादयः शब्दाः अद्यत्वे देशस्य सार्वजनिके संसदीये च विमर्शे अधिकं श्रूयन्ते। विपक्षः संसदः मध्ये तस्य उपस्थितिं प्रति यान् प्रश्नान् उत्थापयति, तेषां सन्दर्भे सः अवदत् यत् सत्रस्य आरम्भात् सः निरन्तरं संसदं समागच्छति तथा सदनस्य कार्यवाही प्रचलति चेत् सर्वेषां प्रश्नानाम् उत्तरं दातुं सिद्धः अस्ति।
Hindusthan Samachar / Divya Ranjan